SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ गुणस्थानकध्वल्पबहुत्वं श्रीहरिभद्रसूरिविहितटीकास्थप्रशस्तिश्च [261 (हारि०) व्याख्या-जिनो वल्लभो यस्य स तथा तेनोपनीतस्तम् , इत्यनेन प्रकरणादेयतामाह / भवति हि यथोक्तान्वर्थनाम्ना पुरुषविशेषेणोपनीते वस्तुनि बुधजनानामादेयताबुद्धिः, एतदेव च प्रस्तुतप्रकरणकतु रभिधानम् / जिना रागादिवैरिवारजेतारः, तेषां वचन-मागमः, तदेवामृतं-त्रिदशाहारः, तस्य समुद्रः सिन्धुः, तस्य विन्दुरिवबिन्दुस्तम् , इमं प्रस्तुतप्रकरणरूपं 'हितकाक्षिणः' मोक्षाभिलाषिणो 'बुधंजनाः' पण्डितलोकाः 'निशृण्वन्तु' आकर्णयन्तु 'गुणयन्तु परावर्तयन्तु 'जानन्तु' बुध्यताम् / इति गाथार्थः / / 86 // .. // अथ प्रशस्तिः // * प्रायोऽन्यशास्त्रदृष्टः, सर्वोऽप्यों मयाऽत्र संचरितः / नं पुनः स्वमनीषिकया, तथापि यत्किंचिदिह वितथम् // 1 // * सूत्रमतिलङ्घय लिखितं, तच्छोध्यं मय्यनुग्रहं कृत्वा / परकीयदोषगुणयोस्त्यागोपादानविधिकुशलैः // 2 // * छद्मस्थस्य हि बुद्धिः, स्वलति न कस्येह कर्मवशगस्य / सद्बुद्धिविरहितानां, विशेषतो मद्विधासुमताम् // 3 // * कृत्वा यवृत्तिमिमा, पुण्यं समुपार्जितं मया तेन / मुक्तिमचिरेण लभता, क्षपितरजाः सर्वभव्यजनः // 4 // * मध्यस्थभावादचलप्रतिष्ठः, सुवर्णरूपः सुमनोनिवासः / अस्मिन्महामेरुरिवास्ति लोके, श्रीमान् बृहद्गच्छ इति प्रसिद्धः // 5 // " तस्मिन्नभूदायतबाहुशाखः कल्पद्रमाभः प्रभुमानदेवः / यदीयवाचो विबुधैः सुबोधाः, कर्णेकृता / नूतनमञ्जरीवत् // 6 // x तस्मादुपाध्याय इहाजनिष्ट, श्रीमान्मनस्वी जिनदेवनामा / / गुरुकमाराधयिताल्पबुद्धिस्तस्यास्ति शिष्यो हरिभद्रसरिः // 7 // * अणहिल्लपाटकपुरे, श्रीमजयसिंहदेवनृपराज्ये / आशापूरवसत्या, वृत्तिस्तेनेयमारचिता // 8 // * एकैकाक्षरगणनादस्या वृत्तेरनुष्टुभां मानम् / . अष्टौ शतानि जातं, पश्चाशत्समधिकानीति 850 // 6 // * वर्षशतैकादशके, दासप्तत्याधिके 1172 नभोमासे / सितपञ्चम्यां सूर्ये, समर्थिता वृत्तिकेयमिति / 10|| // इत्यागमिकवस्तुविचारसारप्रकरणवृत्तिः, श्रीमद्धरिभद्रसूरिनिर्मिता समाप्ता / / * आया। X उपज,तिः।
SR No.004404
Book TitleKarmgranth tatha Sukshmarth Vicharsar Prakaran
Original Sutra AuthorN/A
AuthorVeershekharvijay
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1974
Total Pages716
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy