________________ 200 ) षडशीतिनाम्नि चतुर्थे कर्मग्रन्थे त्रेण स्त्रीवेदोऽप्यनेनैव क्रमेण क्षिप्यते / ततः षड् नोकषायान् युगपत्क्षपयितुमारभते / ततः प्रभृति च तेषामुपरितनस्थितिदलिकं न पुरुषवेदे संक्रमयति किन्तु संज्वलनक्रोध एव, एतेऽपि च पूर्वोकाविधिना क्षिप्यमाणा अन्तमुहूर्तमात्रेण निःशेषाः क्षीगाः। तत्समयमेव च पुरुपवेदस्य बन्धोदयोदीरणाव्यवच्छेदः समयोनावलिकाद्विकवद्धं मुक्त्वा शेषदलिकस्य क्षयश्च / ततोऽसाविदानीमवेदको जातः / क्रोधं च वेदयतः सतस्तस्य क्रोधाद्धायास्त्रयो विभागा भवन्ति / तद्यथाअश्वकर्णकरणाद्धा 1, किट्टिकरणाद्धा 2, किट्टिवेदनाद्धा 3 च / तत्राश्वकर्णकरणाद्धायां वर्तमानः प्रतिसमयमनन्तान्यपूर्वस्पर्द्धकानि चतुर्णामपि संज्वलनानामन्तरकरणादुपरितनस्थितौ करोति / अथ किमिदं स्पर्द्धकम् ? इति, उच्यते, इह तावदनन्तानन्तैः परमाणुभिनिष्पन्नान् स्कन्धान् जीवः कर्मतया गृह्णाति / तत्र चैकैकस्मिन् स्कन्धे यः सर्वजघन्यरसः परमाणुः तस्यापि रसः . केवलिप्रज्ञया छिद्यमानः सर्वजीवेभ्योऽनन्तगुणान् रसभागान् प्रयच्छति / अपरस्तु तानप्येकाधिकान् / अन्यस्तु द्वयधिकान् / एवमेकोत्तरया वृद्धया तावन्नेयं यावदन्यः परमाणुः सिद्धानन्तभागाधिकान् रसविभागान् प्रयच्छति / तत्र जघन्यरसा ये केचन परमाणवस्तेषां समुदायः समानजातीयत्वादेका वर्गणा इत्युच्यते / अन्येषां त्वेकाधिकरसभागयुवतानां समुदायो द्वितीया वर्गणाः अपरेषां तु द्वयधिकरसभागयुक्तानां समुदायस्तृतीया / एवमनया दिशेकेकरसभागवृद्धानामणनां समुदायरूपा वर्गणाः सिद्धानामनन्तभागकल्पा अभव्येभ्योऽनन्तगुणावाच्याः / एतासां च समुदायः स्पर्द्धकमित्युच्यते / स्पर्द्वन्त इवोत्तरोत्तरवृद्धया परमाणुवर्गणा अत्रेतिकृत्वा / इत ऊद्धवेमेकोत्तरया निरन्तरवृद्धया प्रवर्द्धमानो रसो न लभ्यते, किन्तु सर्वजीवानन्तगुणैरेव रसभागैः / ततस्तेनैव क्रमेण ततः प्रभृति द्वितीयं स्पर्द्धकमारभ्यते / एवमेव च तृतीयम् / एवं तावद्वाच्यं यावदनन्तानि स्पर्धकानि / एतेभ्य एव च इदानीं प्रथमादिवर्गणा गृहीत्वा विशुद्धिप्रकर्षवशादनन्तगुणहीनरसाः कृत्वा पूर्ववत्पर्घकानि करोति / न चैवंभूतानि कदाचनापि पूर्व कृतानि ततोऽपूर्वाणीत्युच्यन्ते / अस्यांचाश्वकर्णकरणाद्धायां वर्तमानः पुरुषवेदं समयो. नावलिकाद्विकेन क्रोधे गुणसंक्रमेण संक्रमयन् चरमसमये सर्वसंक्रमेण संक्रमयति, तदेवं क्षीणः पुरुषवेदः / किट्टिकरणादायां पुनर्वतमानश्चतुर्णामपि संज्वलनानामुपरितनस्थितिगतदलिकस्य किट्टीः करोति / अथ किमिदं किट्टिः ? इति, उच्यते, पूर्वस्पर्द्धकेभ्योऽपूर्वस्पर्द्धकेभ्यश्च प्रथमादिवर्गणा गृहीत्वा विशुद्धिप्रकर्षवशादत्यन्तहीनरसाः कृत्वा तासामेकैकोत्तरवृद्धित्यागेन बृहदन्तरालतया व्यवस्थापनम् / यथा यासामेव वर्गणानामसत्कल्पनयाऽनुभागभागानां शतमेकोत्तरादि चासीत् , तासामेव विशुद्धिवशादनुभागभागानां दशकस्य पञ्चदशकादेश्च व्यवस्थापनमिति / एताश्च किट्टयः परमार्थतोऽनन्ता अपि स्थूलजातिभेदापेक्षया द्वादश कल्प्यन्ते एकैकस्य कषायस्य तिस्रस्तिस्रः / तद्यथा-प्रथमा द्वितीया तृतीया च / एवं क्रोधेन क्षपकश्रेणिं प्रतिपन्नस्य द्रष्टव्यम् /