________________ मार्गणास्थानेषु जीवस्थानानि 'स्थावरपञ्चके' पृथिव्यप्तेजोवायुवनस्पतिलक्षणे प्रत्येकं 'प्रथमानि' पर्याप्तापर्याप्तसूक्ष्मबादरैकेन्द्रियलक्षणानि चत्वारि जीवस्थानानि भवन्ति, स्थावरपश्चकस्यैकेन्द्रियत्वेन तत्संबन्धिनामेव जीवस्थाननां तत्र संभवात् / तथा चरमाणि' एकेन्द्रियसंवन्धीनि चत्वारि जीवस्थानानि वर्जयित्वा शेषाणि द्वीन्द्रियादिसंबन्धीनि दश जीवस्थानानि त्रसेषु लभ्यन्ते, द्वीन्द्रियादीनामेव त्रसत्वात् // 19 // " इदानीं योगादिष्वेतानि जीयस्थानानि यथालाघवमुपदिदर्शयिषुराह विगलतिअसन्निसन्नी, पज्जत्ता पंच होंति वइजोगे। मणजोगे सन्निको, पुमित्थिवेए चरम चउरो // 20 // (हारि०) व्याख्या-इह प्राकृतशैलीवशात्पुल्लिङ्गनिर्देशः / ततश्च विकलत्रिकासंज्ञिसंज्ञिलक्षणानि पर्याप्तकजीवस्थानानि पञ्च भवन्ति, क इत्याह-वाग्योगे / तथा मनोयोगे पर्याप्तसंक्येक जीवस्थानकम् / काययोगे पुनरग्रे वक्ष्यतीति / साम्प्रतं वेदेषु तान्याह-वेदशब्दस्य प्रत्येकमभिसंबन्धात् पुरुषवेदस्त्रीवेदयोः 'घरमाणि' पर्यन्तवर्तीनि जीवस्थानानि पञ्चेन्द्रियसत्कानि चत्वारि भवन्तीति प्राक्तनेन योगः // इह अपर्याप्तश्च करणेन गृह्यते, न लब्ध्या, लब्ध्यर्याप्तकस्य सर्वस्यैव नपुसकत्वात् / अन्यच्च यंदवासंज्ञिनि स्त्रीपुसाभिधानं तत्कार्मग्रन्थिकमतेनैव द्रष्टव्यम् / सैद्धान्ति. कानां त्वसंज्ञी पयाप्तोऽपर्याप्तो वा नपुसक एव / तथा च प्रज्ञप्तिः-"असन्निपुच्छा गोयमा! नपुंसगवेयगा" मनुष्यासंज्ञिनस्तु लब्ध्यपर्याप्ता एव भवन्तीत्यतस्ते निर्विवादं नपुसका एव / इति गाथार्थः // 20 // उक्तानि वेदेषु जीवस्थानानि / अथ पूर्वायोजितकाययोगनपुसकवेदयोरग्रेतनपदपञ्चदशके च सर्वजीवस्थानानि / लाघवार्थ संगृह्य तत्प्रतिपादयन्नाह (मल०) विकलत्रिकं द्वीन्द्रिय त्रीन्द्रिय 2 चतुरिन्द्रिय 3 लक्षणं, असंज्ञी 4 संज्ञी 5 च पर्याप्तः, इत्येतानि पञ्च जीवस्थानानि वाग्योगे भवन्ति न शेषाणि, तेषु वाग्योगासंभवात् / 'मणजोगे सन्निको' इति पर्याप्त इत्यनुवर्तते, मनोयोगे पर्याप्तः संश्येको लभ्यते नान्यः, तत्र मनःसद्भावायोगात् / तथा पुवेदे स्त्रीवेदे च चरमाणि पर्याप्तापर्याप्तसंश्यसंज्ञिलक्षणानि चत्वारि जीवस्थानानि भवन्ति / यद्यपि च सिद्धान्तेऽसंज्ञी पर्याप्तोऽपर्याप्तो वा सर्वथा नपुंसक एवोक्तः / तथा चोक्तं प्रज्ञप्तौ-"तेणं भंते ? असन्निपंचंदियतिरिक्खजोणिया कि इथिवेयगा पुरिसवेयगा नपुंसगवेयगा 1 गोयमा ? नो इत्थिवेयगा नो पुरिसवेयगा नपुंसकवे यगा" इति / तथाऽपीह स्त्रीपुसलिङ्गाकारमात्रमङ्गीकृत्य स्त्रीवेदे पुवेदे वाऽसंज्ञीनिर्दिष्ट इत्यदोषः / तदुक्तं पञ्चसंग्रहमूलटीकायाम्-"यद्यपि चासंज्ञिपर्याप्तापर्याप्तौ नपुसको तथा 1 "वय०” इत्यपि पाठः / 2 “सन्नेको” इति जे /