________________ 152 ] बन्धस्वामित्वाख्ये तृतीये कर्मग्रन्थे (हारि०)व्याख्या--सासादनेऽप्यसंज्ञिनो भङ्गः संयुद्भवो मुणितव्यः / तद्यथा-सा० 101 / इह सूत्रे बहुवचनं प्राकृतशैलीवशाद् / इति संज्ञिद्वारे बन्धोऽभिहित इति 13 / / 'आहारगेसु ओघो' इति आहारके वोघबन्धः कर्मस्तवोक्तः / तद्यथा--सामान्येन 120 / मि० 117 / इत्यादिकः / तथेतरेषु पुनरनाहारकेषु 'कम्मणो' इति कार्मशरीरस्य संबन्धी 'भंगो' भङ्गविकल्पो मुणितव्य इति पूर्वेण योगः / तद्यथा-आयुस्त्रिकं नरकत्रिकं, आहारकद्विकम् , इत्यष्टौ प्रकृतीरोघवन्वाद्विशत्यधिकशतलक्षणान्मुक्त्वा शेषस्य द्वादशोत्तरशतस्यानाहारके सामान्येन बन्धः 112 / तथा सुरद्विकं 2 तीर्थकरं 1 वैक्रियद्विकं 2 च पूर्वोक्तद्वादशोत्तरशतमध्यान्मुक्त्वा शेषस्य सप्तोत्तरशतस्यानाहारके मिथ्यादृष्टेन्धः 107 / तथा नरकत्रिकहीनाः षोडश प्रकृतीः पूर्वोक्ताः सप्तोत्तरशतमध्यावर्जयित्वा शेषायाश्चतुर्नवतेः सासादनगुणस्थानकेऽनाहारकजीवे बन्धः 94 / तिर्यगायुरूनां पश्चविंशति पूर्वोक्तां चतुर्नवतेमध्यान्मुक्त्वा शेषायाः सप्ततेः सुरद्विकवैक्रियविकतीर्थकरयुस्ताया अविरतगुणस्थानकेऽनाहारकजीवे बन्धः 75 / तथा सयोगिनि त्रयोदशगुणस्थानके एकस्याः सातप्रकृतेः समुद्धाते तृतीयचतुर्थपञ्चमसमयेष्वनाहारकजीवे बन्धः / अयं चानाहारकजीवो मिथ्यात्वसासादनाविरतसयोगिगुणस्थानकचतुष्टय एव लभ्यते, नान्यत्रेति / यदिदं बन्धस्वामित्वं कार्मणकाययोगे प्राक् चतुर्थयोगद्वारे प्रतिपादितं तदिहाप्यर्थतः स्मारितं विस्मरणशीलानाम् / नवरं तत्र कार्मणकाययोगाभिलापेनोक्तमिह त्वनाहारकाभिलापेन / इति गाथार्थः // 53 // ____ इत्याहारके बन्धस्वामित्वं प्रतिपादितम् 94 // तत्प्रतिपादनाच्च प्रतिपादितं प्रकरणादौ प्रतिज्ञातं चतुर्दशमार्गणास्थानबन्धस्वामित्वं गुणस्थानकयोजनागर्भ यथासंभवं पर्याप्तकापर्याप्तकजीवस्थानक सन्मिश्रं च / साम्प्रतमौद्धत्यपरिहारपूर्वकं प्रकरणसमर्थनां प्रयरणपरिज्ञानोपायं च प्रचिकटयिषुर्गाथामाह-- इय पुव्वसूरिकय पगरणेसु जडबुद्धिणा 'मए रइय। बंधस्सामित्तमिणं, नेय कम्मत्थय सोउं // 54 // // बंधसामित्तं सम्मत्तं // (हारि०) व्याख्या इतिशब्दः परिसमाप्तौ / 'पूर्वसूरिकृतप्रकरणेषु' कर्मप्रकृत्यादिषु विषये 'जबुद्धिना' बालमतिना 'मए' इति ग्रन्थकार आत्मानं निर्दिशति, 'रचितं' निबद्धम् / 1 'कम्मुणो" इत्यपि पाठः // 2 “बन्धविकल्पो" इत्यपि / ३"समन्वितं च" इत्यपि / 4 "पगरणाउ” इत्यपि पाठः / 5 "मया” इत्यपि /