SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ 104] कर्मसवाख्ये द्वितीये कर्मग्रन्थे 21 उपघातनाम 22 पराधातनाम 23 उच्छ्वासनाम 24 आतपनाम 25 उद्योतनाम 26 निर्माणनाम२७ तीर्थकरनाम 28 इत्य टाविंशतिः प्रत्येकप्रकृतयः / पूर्वोकापिण्डप्रकृतिचतुर्दशकेन सहिता द्विचत्वारिंशद्भवन्ति / पिण्डप्रकृतिप्रभेदपञ्चपष्टया तु सहिता त्रिनवतिर्भवति 6 // गोत्रं द्विभेदम-उच्चैर्गोत्रं 1 नीचेर्गोत्रं 2 चेति 7 / अन्तरायं पश्चवा-दानान्तरायम् 1 लाभान्तरायम् . 2 भोगान्तरायम् 3 उपभोगान्तरायम् 4 वीर्यान्नरायं 5 चेति 8 // एवं च कृत्वा ज्ञानावरग पञ्च प्रकृतयः / दर्शनावरणे नव / वेदनीये द्वे / मोहनीयेऽष्टाविंशतिः / आयुषि चतस्रः / नाम्नि त्रिनवतिः / गोत्रे द्वः / अन्तराये पञ्च / सर्वपिण्डोऽष्टचत्वारिंशं शतमित्येतेन सर्वेण सत्तायामधिकारः / उदयो दीरणयोस्त्वौदारिकादिबन्धनानां पञ्चानामौदारिकादिसङ्घातानां च पश्चानां यथास्वमौदारिकादिषु पञ्चसु शरीरेण्वन्तर्भावः / वर्णगन्धरमस्पर्शानां यथासंख्य पञ्चद्विपश्चाष्टप्रभेदानां तत्प्रभेद'कृतां विंशतिमपनीय तेषामेव चतुर्णामभिन्नानां ग्रहणे पोडशकमिदं, बन्धनसङ्घातदशकसहितमष्टचत्वारिंशशतादपनीयते, शेषेण द्वाविंशेन शतेनाधिकारः / बन्धे तु सम्यक्त्वसम्यग्मिथ्यात्वयोः सङ्कमेणैव निष्पाद्यत्वाद्वन्धो न संभवतीति तयोविंशशतादपनीतयोः शेषेण विंशेन शतेनाधिकारः / इति प्रकृतिसमुत्कीर्तना कृता। अधुना प्रकृतिवर्णना क्रियते / तत्र बानावरणं तावत्-सामान्यविशेषात्मके वस्तुनि विशेषग्रहणात्मको बोधो ज्ञानं तस्यावरणं ज्ञानावरणम् / तस्य प्रथमो भेद आभिनिबोधिकज्ञान वरणम् / अभिमुखो योग्यदेशावस्थितार्थापेक्षी नियतः स्वस्वविषयापेक्षी बोधोऽभिनिबोधः स एवाभिनिवोधिक, तच्च तद् ज्ञानं चेति आभिनियोधिकज्ञानम् / तच्चतुर्विधम्-अवग्रहः 1 ईहा 2 अपायः 3 धारणा 4 चेति / अवग्रहो द्विविधः-व्यञ्जनावग्रहः 1 अर्थावग्रहश्च 2 / तत्र व्यञ्जनावग्रहश्चक्षुर्मनोवर्जानामिन्द्रियाणां स्वस्वविषयद्रव्यैः सह संबन्धः, तेनासौ चतुर्विध एव / अर्थावग्रहस्तु किमपीदमित्येतावन्मात्रो मनःषष्ठैः पञ्चभिरिन्द्रियैर्वस्त्ववबोधः, ततश्चैवमसौ पोढा / ईहादयोऽपि मनःपष्ठेन्द्रियपञ्चकसंभवत्वात्पोव / अपि किं न्वयं भवेत् पुरुष एव उत स्थाणुः ? इत्यादिवस्तुधर्मान्वेषणात्मकं ज्ञानचेष्टनमीहा / पुरुष एवायमिति वस्त्वध्यवसायात्मको निश्चयोऽपायः / निश्चितस्याविच्युतिस्मृतिवासनात्मकं धरणं धारणा / तदेतदष्टाविंशतिविधं श्रुतनिश्रितमाभिनियोधिकज्ञानम् , श्रुतेन संस्क्रियमाणत्वात् / अश्रुतनिश्रितेनौत्पत्तिक्यादिबुद्धिचतुष्टयेन सह द्वात्रिंशद्विधम् / अथवा बहुबहुविधक्षिप्रानिश्रितासंदिग्धत्रुवाणां सेतराणामर्थानां ग्रहणेन भिद्यमानत्वा वादशभिरष्टाविंशतिगुणिता त्रीणि शतानि षट्त्रिंशानि, तानि बुद्धि चतुष्टयसहितानि चत्वारिंशानि त्रीणि शतानि भेदानामाभिनिबोधिकज्ञानस्येति तस्यैतावद्भेदमेव यदावरणस्वभावं कर्म 1 'कृता विंशतिरपनीयते, ते-०" इति वा पाठः। 2 'वस्तुन्यध्यवसायात्मको" इत्यपि पाठः।।
SR No.004404
Book TitleKarmgranth tatha Sukshmarth Vicharsar Prakaran
Original Sutra AuthorN/A
AuthorVeershekharvijay
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1974
Total Pages716
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy