SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमशब्दानुशासने तृतीयाध्यायस्य प्रथमः पादः 249 ___अ० कर्मधारयस्तत्पुरुषत्वं न व्यभिचरति, यत्र तत्पुरुषस्तत्र कर्मधारय इति सूत्रार्थे तत्पुरुष इत्युक्ते कर्मधारयोऽपि ज्ञातव्यः / 'तस्य तुल्ये कः संज्ञाप्रतिकृत्योः' (7 / 1 / 108) इति कः / अंशण समाघाते इति चुरादौ तालव्यशकारः, मतान्तरेण दन्त्योऽपि सकार इष्यते / तेन व्यंसक इति उभयव्युत्पत्तौ सिद्धम् / मयूरव्यंसकेत्यादयः' इति सूत्रप्रान्ते विशेषप्रयोगा इमे ज्ञातव्याः / तथाहि शाकपार्थवादय शाकपार्थिवादय इति वा शाकटायनसूत्रम्, शाकप्रियः शाकभोजी शाकप्रधानो वा पार्थवः, पृथोरपत्यं पार्थवः, शाकपार्थवः / अथवा शाकपार्थिवः पृथिव्या ईश्वरः पार्थिवः / शेषं प्राग्वत् / यष्टिप्रहरणो मौद्गल्यः यष्टिमौद्गल्यः / अजापण्यस्तौल्वलिः अजातौल्वलिः, अत्र पण्यलोपः / परशुप्रहरणो रामः परशुरामः / सहस्रबाहुरर्जुनः सहस्रार्जुनः / त्र्यवयवा विद्या त्रिविद्या / एकेनाधिका दश एकादश / द्वाभ्यामधिका दश द्वादश / एवं षड्भिरधिका दश षोडश / एकविंशत्यादयः / दध्ना उपसिक्त ओदनो दध्योदनः, एवं घृतौदनः, गुडेन मिश्रा धाना गुडधानाः, तिलेन मिश्राः पृथुकास्तिलपृथुकाः, तथा अश्वेन युक्तो रथोऽश्वरथः, एवं गुजरथः, घृतेन पूर्णो घटो घृतघटः, एवं तैलघटः, वल्लघट एषु सर्वत्र शाकपार्थिवादिसूत्रेण प्रियादीनां शब्दानां मध्यवर्त्तिनां लोपः क्रियते / तथा तृतीयो भागस्त्रिभागः, तृतीयोऽशः त्र्यंशः, तृतीयं विष्टपं त्रिविष्टपमित्यादिषु शाकपार्थिवादिना पूरणप्रत्ययस्य विकल्पेंन लोपः / तथा सर्वेषां श्वेततरः सर्वश्वेतः, सर्वेषां महत्तरः सर्वमहान्, अत्र गुणेन तरप् प्रत्ययान्तेन निर्धारणषष्ठीसमासः, निपातनात् तरप्प्रत्ययो लुप्यते / एवं मयूरव्यंसकादिप्रयोगेष्वविहितलक्षणस्तत्पुरुषो द्रष्टव्यः / यच्च लक्षणेन नोपपन्नं तत् सर्वं निपातनात् सिद्धम् / इतिशब्दः स्वरूपावधारणार्थः / तेन परमो मयूरव्यंसक इति समासान्तरं न भवति / बहुवचनमाकृतिगणार्थम्, तेन विस्पष्टं पटुः विस्पष्टपटुः / पुनाराजा पुना राजः, एवं पुनर्गवः / पादाभ्यां ह्रियते पादहारकः, गले चोपते गलचोपकः, सायंदुह्यते सायं दोहः, एवं प्रातर्दोहः प्रातराश इत्यादिप्रयोगा द्रष्टव्याः / प्रान्ते प्रयोगमाला ज्ञातव्याः / एहि स्वागतेति जल्पो यस्यां सा एहिरामे एहियाहीत्यर्थः, निपातनात् आकारः / निपातनात् आ० निपातनादकञ् वृद्धिरभावश्च / निपातनात् ऋकारः / कुरु कटंमित्यभीक्ष्णं यो देवदत्त आह स देवदत्त कुरुकट इत्युच्यते / प्रोष्य वियुक्तो भूत्वा पापीयान् निःस्नेहो भवति च प्रोच्यपापीयान् इत्युच्यते / अथवा उदक् च अवाक् च / उच्चितं च निचितं च इति वा, आचापराचं इत्यत्र आचितं च पराचितं च / अर्वाक् च परस्ताच्च इति वा वाक्यम् // 116 / / ... . चार्थे द्वन्द्वः सहोक्तौ // 3 / 1 / 117 // नाम नाम्ना सह सहोक्तिविषये चार्थे वर्तमान समस्यते, स च समासो द्वन्द्वसंज्ञो भवति / प्लक्षश्च न्यग्रोधश्च प्लक्षन्यग्रोधौ / नाम नाम्नेत्यनुवर्तमानेऽपि लघ्वक्षरादिसूत्रे एकग्रहणाद् बहूनामपि द्वन्द्वः / धवखदिरपलाशाः / चार्थे इति किम् ? वीप्सासहोक्तौ मा भूत् / ग्रामो ग्रामो रमणीयः / सहोक्ताविति किम् ? प्लक्षश्च न्यग्रोधश्च वीक्ष्यताम् / इह समुच्चयान्वाचयेतरेतरयोगसमाहारभेदाचत्वारश्चार्थाः / द्वन्द्वप्रदेशा 'द्वन्द्वे वा' (1 / 4 / 11) इत्यादयः // 117 // ___ अ० यत्र समासे द्वयोर्धर्मयोरथवा धर्मिणोभिन्नयोः प्राधान्यं सा सहोक्तिरुच्यते / कर्मधारयसमासे तु धर्मिण आश्रयस्यैव प्राधान्यात् तस्य चैकत्वम् / अतः खञ्जकुण्टादौ न सहोक्तिः / प्लक्षश्च न्यग्रोधश्च वीक्ष्यतामत्र तु प्रत्येकं क्रियया सम्बन्धीति सहोक्तेरभावः / इह समुच्चयेत्याद्यर्थोऽयम् / एकमर्थं प्रति व्यादीनां शब्दानां तुल्यबलानामविरोधिनामनियतक्रमयोगपद्यानां आत्मरूपभेदेन चीयमानता समुच्चय उच्यते / यथा चैत्रः पचति च पठति च / चैत्रो मैत्रश्च पचति / राज्ञो गौश्चाश्वश्च / राज्ञो ब्राह्मणस्य च गौः / नीलं च तदुत्पलं चेति / चशब्दं विनाप्ययं समुच्चयः सम्भवति
SR No.004401
Book TitleMadhyam vrutti vachuribhyamlankrut Siddhahemshabdanushasan Part 01
Original Sutra AuthorN/A
AuthorKshamabhadrasuri, Ratnajyotvijay
PublisherRanjanvijayji Jain Pustakalay
Publication Year
Total Pages310
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy