SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ बिलणः। ' अस्ति कश्मीरेष्वनेकगुणगुम्फितं प्रवरपुरं नाम नगरम्. वर्तते च ततः क्रोशत्रयान्तरे तक्षकनागाधिष्ठितविमलसलिलभरितकुण्डमण्डितस्य जयवनाख्यस्थलस्य समीपे द्राक्षाकुडमक्षेत्रसमुल्लसितोभयभागः परमरमणीयः खोनमुख(ष)नामको ग्रामः. निवसन्ति स्म तत्र गोपादित्यमहीभुजा मध्यदेशात्सादरमानीय समावासिताः श्रौतस्मार्तधर्मानुष्ठाननिष्ठितचेतसो ब्रह्मचिन्तनैकतानवृत्तयः कौशिकगोत्रोत्पन्नाः केचन भूसुरसत्तमाः. तेषु निखिलवेदवेदाङ्गवेत्ता मुक्तिकलशो नाम पण्डितरत्नमासीत्. तस्य वदान्यो विक्रान्तो विद्वांश्च राजकलशाभिधस्तनयो बभूव. तस्मान्महाभाष्यव्याख्याता ज्येष्ठकलशाख्यः सूनुरुदपद्यत, यो नागादेवीं नाम पतिव्रताग्रगण्यां भार्यामूटवान्. तयोर्विद्वन्मूर्धन्यो नानानरपतिपरिषत्सु लब्धसंमानः सत्कविरिष्टरामाख्यः, काञ्चनगौराङ्गो वेदवेदाङ्गसाहित्यादिनिखिलविद्याकुलगृहं जगल्ललामभूतो महांकविबिह्नणः, कवितानिवासस्थलमानन्दाख्यश्चेति पुत्रत्रयमुदपेदे. तेषु बिहूणो बाल्यमतिवाह्य यौवने नानादेशविलोकनकौतुकादनन्तदेवसूनुकलशदेवराज्यसमये कश्मीरान्परित्यज्य मथुरा-वृन्दावन-कान्यकुब्ज(कनौज)-काशीप्रयाग-अयोध्या-डाहल-धारानगर-गुर्जरदेश-सोमनाथपत्तन-सेतुबन्धादिस्थलेषु बम्भ्रम्यमाणस्तत्तद्देशीयविविधभूपालसभाजितः क्रमेण दक्षिणदिङ्मण्डनायमानां चालुक्यवंश्यनरे. न्द्रराजधानी कल्याणाभिधां नगरीमाससाद. लब्धवांश्च तत्रैव चालुक्यवंशभूषणेन कर्णाटदेशाधीशेन कुन्तलेन्दुना त्रैलोक्यमल्लापरनामधेयेनाहवमलेन तत्सूनुना विक्रमाङ्कदेवेन वा सादरमर्पितां विद्याधिपतिरितिपदवीपुरस्कृतां भूयसी संपत्तिम्. प्रणिनाय च तत्रैव विक्रमाङ्कदेवचरिताभिधं महाकाव्यमिति विक्रमाङ्कदेवचरितादेवावगम्यते. 1. राजधानीनगरम्, अधुना यस्य श्रीनगरनाम्ना व्यवहारः. 2. अधुना यस्य 'खुनमोह'नाम्ना प्रसिद्धिः. 3. ख्रिस्ताब्दप्रारम्भात्किचिदूनचतुःशतवर्षपूर्व गोपादित्यमहीपतिः कश्मीरेषु राज्यं कुर्वन्नासीत्. 4. 'कश्मीरेभ्यो विनिर्यान्तं राज्ये कलशभूपतेः। विद्यापति यं कर्णाटश्चके पर्माडिभूपतिः॥९३६॥प्रसर्पतः करिटिभिः कर्णाटकटकान्तरे। राज्ञोऽग्रे ददृशे तुझं यस्यैवातपवारणम् / / 937 // त्यागिनं हर्षदेवं स श्रुत्वा सुकविबान्धवम् / बिहूणो वञ्चनां मेने विभूतिं तावतीमपि // 938 / / इति कणराजतरङ्गिण्याः सप्तमे तरङ्गे समुपलभ्यते. ख्रिस्ताब्दीयैकादशशतकस्योत्तरार्धे कलशदेवराज्यसमयः. तदैव बिह्रणः कश्मीरान्परित्यक्तवान्. 5. विक्रमाङ्कदेवचरिते प्रतिसर्गसमाप्तौ 'त्रिभुवनमल्लदेवविद्यापति' इति बिहणविशेषणं वर्तते. एतेन आहवमल्लापरनाम्ना त्रैलोक्यमल्लेनैव विरुणाय विद्यापतिरिति पदवी वितीर्णा स्यादित्यनुमीयते.
SR No.004400
Book TitleKavyamala
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1988
Total Pages360
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy