SearchBrowseAboutContactDonate
Page Preview
Page 814
Loading...
Download File
Download File
Page Text
________________ 5 परिच्छेदः। सरखतीकण्ठाभरणम् / 721 रौदादयो रसा दीप्त्या लक्ष्यन्ते काव्यवर्तिनः। तब्यक्तिहेतू शब्दार्थावोजोधिष्ठाय तिष्ठति // समर्थकत्वं वाक्यस्य यत्तु सर्वरसान्प्रति / स प्रसादो गुणो ज्ञेयः सर्वसाधारणक्रियः // ' - सेयं गुणानां रसारम्भकत्वे संकराप्रसिद्धिः / एवं रसानां गुणार-- म्भकत्वेऽपि / तद्यथा-रूढाहंकारतौर्जित्यम् , भावतो वाक्प्रवृत्ति - विकत्वम् , क्रोधौदावप्यतीव्रता, माधुर्यम् , आशयोत्कर्षः, उदात्तत्वम् , अर्थस्याभीष्टतमता, प्रेयः, दीप्तरसत्वं, .कान्तिरिति / यत्र तु तिलतन्दुलवत् क्षीरनीरवच्छायादर्शवत् तुल्यकक्षतयैव गुणरसानां वाक्येऽपृथक्प्रयत्ननिर्वानां विनिवेशस्तत्र संकरव्यवहारः प्रवर्तत एव / स पोढा-गुणप्रधानः-रसप्रधानः, उभयप्रधानः, उभयाप्रधानः, गुणाधिकः, रसाधिक इति // तेषु गुणप्रधानो यथा- ... 'अत्रान्तरे ललितहारलतानितम्ब संवाहनस्खलितवेगतरङ्गिताङ्गी / देवी व्यपास्य शयनं धृतमानतन्तुरन्तःपुरं गतवती सह सौविदल्लैः // 479 // 1. 'कार्यवर्तिनः' क. 2. 'तद्व्यक्तिहेतू शब्दार्थावोजोऽधिष्ठाय तिष्ठति' क.,. ध्वन्यालोके तु तद्वयक्तिहेतू शब्दार्थावाश्रित्योजो व्यवस्थितम् / ' इति पाठः. 3. 'समर्पकत्वं वाप्यस्य' क.,धन्यालोके तु 'समर्पकत्वं काव्यस्य' इति. 4. 'भावतो वाक्प्रवृत्तिः' क., 'भावयतो वाक्यवृत्तिः' ख. 5. 'क्रोधादावप्यस्य तीव्रत्वं' क., 'क्रोधादावपि तीव्रता' ख. 6. अर्थस्याभीष्टतन्मयता' ख. 7. 'तिलतण्डुलवत्' क.ख. 8. 'वाक्ये पृथक प्रयत्न' क.ख. 46 स० क.
SR No.004397
Book TitleSarasvatikanthabharanam
Original Sutra AuthorN/A
AuthorDhareshvar Bhojdev, Kedarnath Sharma, Vasudev L Shastri
PublisherPandurang Jawaji
Publication Year1934
Total Pages894
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy