SearchBrowseAboutContactDonate
Page Preview
Page 806
Loading...
Download File
Download File
Page Text
________________ 5 परिच्छेदः। सरखतीकण्ठाभरणम् / गुणप्रधानः, अर्थगुणप्रधानः, दोषगुणप्रधानः, शब्दालंकारप्रधानः, अ. र्थालंकारप्रधानः, उभयालंकारप्रधानश्च // तेषु शब्दगुणप्रधानो यथा-.... 'प्राप्तश्रीरेष कस्मात्पुनरपि मैयि तं मन्थखेदं विदध्या निद्रामप्यस्य पूर्वामनलसमनसो नै संभावयामि / सेतुं बध्नाति भूयः किमिति च सकलद्वीपनाथानुयात स्त्वय्यायाते वितर्कानिति दधेत इवाभाति कम्पः पयोधेः४६६' अत्र हेतूप्रेक्षाभिधाने त्वयीत्यादौ पदे विष्णोः खरूपाध्यासेन त. द्भावापत्तौ समाधेरिह प्राधान्यं प्रतीयते / ननु चायमर्थस्य प्राकट्याप्रसादोऽर्थगुणः कस्मान्न भवति / अस्मिन्नपि तव्यपदेशेन शब्दशतेराधिक्यात् / ननु च त्वयि इति, एष इति, अस्य इति, युष्मदेतदिदमां न कश्चन विष्णुवाची स कथं वर्णनीये न्यस्तस्तं तमर्थमभिदधीत / उच्यते, सर्वनामत्वेनैषां सर्ववा चित्वात् / सर्वनामानि हि सर्वाभिधायीन्यपि प्रकरणादिगम्यं विशेषमेव ब्रुवते स च इह प्राप्तश्रीरित्येवमादिभिरभिव्यक्तमेवावगम्यत इति // अर्थगुणप्रधानो यथा'लक्ष्मीवशीकरणचूर्णसहोदराणि त्वत्पादपङ्कजरजांसि चिरं जयन्ति / 1. 'दोषालंकारप्रधानः' क. 2. 'इति' इत्यधिकं क.ख. 3. 'मथितुं मन्दरं वा' ख. पद्यमेतद् ध्वन्यालोके( 2 / 30 )ऽप्युदाहृतम्. 4. 'नाप्यहं तर्कयामि' क. 5. 'विदधति' क. 6. 'समाधेः प्राधान्यमिह' क.ख. 7. 'युष्मदेतदिदमदः' क., 'युष्मदस्मदिदमां' घ. 8. 'कश्चिन्न विष्णुवाची' क. 9. 'स कथं वर्णनीये वस्तुनि तमर्थमभिदध्यात्' क.ख़. 10. 'सर्वनामाभिधायीन्यपि' क. ख. 11. 'प्रकरणादिगम्यं विशेषमर्थ च ब्रुवते' क., 'प्रकरणादिगम्यविशेषमिव ब्रुवते' ख. 12. 'अभिव्यक्तमेवाभिगम्यते इति' क., 'अभिव्यक्त एवाभिगम्यते इति' ख.
SR No.004397
Book TitleSarasvatikanthabharanam
Original Sutra AuthorN/A
AuthorDhareshvar Bhojdev, Kedarnath Sharma, Vasudev L Shastri
PublisherPandurang Jawaji
Publication Year1934
Total Pages894
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy