SearchBrowseAboutContactDonate
Page Preview
Page 751
Loading...
Download File
Download File
Page Text
________________ 658 - काव्यमाला / अत्रोर्वशीविरहात्पुरूरवा उत्तरां कामावस्था प्रपन्नः प्रियाप्राप्तौ प्रेत्येव प्रत्युज्जीवितस्तदेवानुसंधत्ते / सोऽयं प्रमापणार्थः प्रवाससिद्धस्तदनन्तरेऽपि समाससामर्थ्यादनुवर्तते / कः पुनरत्र समासः / षष्ठीतत्पुरुष एव / का वृत्तिः / न तावदनुत्सृष्टखार्था, नहि प्रोष्यसमागतयोः प्रवाससंबन्धोऽपि विद्यते / उत्सृष्टखार्था तदिह भवतु / युक्तं पुनर्यदुत्सृष्टस्वार्था नाम वृत्तिः स्यात् / बाढं युक्तम् / एवं हि दृश्यते लोकेपुरुषोऽयं परकर्मणि प्रवर्तमानः स्वकर्मोत्सृजति / तद्यथा तक्षा राजकमणि प्रवर्तमानस्तक्षकर्मोत्सृजति / नन्वेवं सति राजपुरुषमानयेत्युक्ते पुरुषमात्रस्यानयनं प्राप्नोति / नैष दोषः / उत्सृजन्नप्ययं खार्थ नात्यन्तायोत्सृजति, यः परार्थविरोधी खार्थस्तमेवोत्सृजति / तद्यथा तक्षा राजकर्मणि प्रवर्तमानस्तक्षकर्मोत्सृजति न तु स्थितविहसितकम्पितादीनि। न चायमर्थः परार्थविरोधी विशेषणं नाम / तस्मान्नोत्लक्ष्यति // करुणानन्तरेऽनुभूतप्रादुर्भावान्वयार्थो यथा'जयन्ति जायाश्लिष्टस्य शम्भोरम्भोधिमन्थने / मनामृतविषाखादमदमूर्छा मनोमुदः // 293 // अत्र दाक्षायण्या हैमवतीत्वेन करुणानन्तरत्वम् / तत्र करुणदुःखेन मूर्छादयः प्रादुरासन् / इह त्वानन्देन ते प्रादुर्भवन्ति // तत्रैवोच्चारणान्वयार्थों यथा'क्लाम्यन्ती यदुपेक्षितासि पुरतः कामो यदने हतः - क्लिष्टं यत्तपसा वपुर्यदपि च प्रोक्ता बटुच्छद्मना / तत्सर्वं प्रणतस्य मेऽद्य दयिते दाक्षायणि क्षम्यता मित्युक्त्वा चरणानयोर्विजयते लुण्ठन्छिवायाः शिवः 294' 1. विरहे' क.ख. 2. 'कामावस्थामापन्नः' क.ख. 3. 'कात्र वृत्तिः' क.ख. 4. 'प्रादुर्भावार्थान्वयार्थों' ख. 5. 'दाक्षायिण्या' ग.घ. 6. 'तुष्यन्! क.ख.
SR No.004397
Book TitleSarasvatikanthabharanam
Original Sutra AuthorN/A
AuthorDhareshvar Bhojdev, Kedarnath Sharma, Vasudev L Shastri
PublisherPandurang Jawaji
Publication Year1934
Total Pages894
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy