SearchBrowseAboutContactDonate
Page Preview
Page 749
Loading...
Download File
Download File
Page Text
________________ 656 ... काव्यमाला। . मिमीते / स चायमों मानेन सिद्धस्तदनन्तरेऽपि समाससामर्थ्यादनुवर्तते / कः पुनरत्र समासः / षष्ठीतत्पुरुष एव / का वृत्तिः / प्रथमानुरागानन्तरवदजहत्खाथैव / युक्तं तत्र विस्रम्भणादावपि प्रथमानुरागस्य विद्यमानत्वात् / इह तु माननिवृत्तौ मानापगमादयो जायन्ते / अन्वयाविशेषणं भविष्यति / तद्यथा-घृतघटस्तैलघट इति निषिक्तेऽपि घृते तैले वा घृतघटोऽयं तैलघटोऽयमित्यन्वयात्पूर्वपदार्थो विशेषणं भवति / भवति तत्र या च यावती चार्थमात्रा इहापि तत्तुल्यमेव // तथा हि'सकअग्गहतंसुण्णामिआणणा पिअइ पिअअमविइण्णम् / थोअं थोअं रोसोधं व माणंसिण मइरम् // 288 // [सकचग्रहत्रस्तावनामितानना पिबति प्रियतमवितीर्णम् / स्तोकं स्तोकं रोषौषधमिव मानिनी मदिराम् // ] सकषायैरेव वाक्यैर्नायकं निस्तुदन्ती शयनीयं गच्छेदिति मानशेषान्वयो दृश्यते // प्रवासानन्तरे प्रिया न वसत इत्यर्थस्यान्वयो यथा'वसने परिधूसरे वसाना नियमक्षामतनुः कृतैकवेणिः / अतिनिष्करुणस्य शुद्धशीला मम दीर्घ विरहव्रतं बिभर्ति 289' 1. 'प्रमिमीते' ख. 2. 'मानसिद्धः' क.ख. 3. 'प्रथमानुरागानन्तरम्' क.ख. 4. 'अयं घृतघटः, अयं तैलघटः' क.ख. 5. 'भवति' ख. नास्ति. 6. 'वा' क.ख. 7. रहसुत्ताणिआणणा' इति गाथासप्त० ख., रभसोत्तानितानना' इति च्छाया.८.'पि. अमुह विइण्णम्' इति गाथासप्त०, 'प्रिममुखवितीर्णा' इति च्छाया च. 9. 'थोअं थोअं' इति गाथासप्त०, 'थोअस्थोअं' क., थोअथोअं' घ., 'त्योअं त्योअं' ख.१०. 'महं व' इति गाथासप्त०. 11. 'उअ माणिणी' इति गाथासप्त०. 12. नियमक्षाममुखी धृतैकवेणिः' इति मुद्रितेऽभिज्ञानशाकुन्तले. 13. 'विरहज्वरम्' क.ख.
SR No.004397
Book TitleSarasvatikanthabharanam
Original Sutra AuthorN/A
AuthorDhareshvar Bhojdev, Kedarnath Sharma, Vasudev L Shastri
PublisherPandurang Jawaji
Publication Year1934
Total Pages894
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy