SearchBrowseAboutContactDonate
Page Preview
Page 699
Loading...
Download File
Download File
Page Text
________________ काव्यमाला / भाममन्यूलासादयः, हासस्य स्मितहसितविहसितादयः, सुप्तप्रलयमत्यादीनां तु खप्नमरणशमादयो भेदा जायन्ते / तत्र यद्यपि 'अजित्वा सार्णवामुर्वीम्' इत्यनेन युद्धवीरः, 'अनिष्ट्वा विविधैर्मखैः' इत्यनेन दानवीरः, 'अदत्त्वा चार्थमर्थिभ्यः' इत्यनेन दयावीरश्चोत्साहरूपेण निष्पत्तौ वर्णितः, तथाप्येकशोऽप्येते रसनिष्पत्त्यै प्रभवन्तीति प्रदर्श्यन्ते // तेषु युद्धवीरो यथा'एतां पश्य पुरःस्थलीमिह किल क्रीडाकिरातो हरः कोदण्डेन किरीटिना सरभसं चूडान्तरे ताडितः / - इत्याकर्ण्य कथाद्भुतं हिमनिधावद्रौ सुभद्रापते ___ मन्दं मन्दमकारि येन निजयोर्दोर्दण्डयोर्मण्डनम् 104' दानवीरो यथा'दधिक्षीरघृताम्भोधिव्यञ्जनस्पृहणीयया / महादानोत्सवे यस्य हन्तकारायितं भुवा // 105 // ' दयावीरो यथा'स त्वं मदीयेन शरीरवृत्ति देहेन निर्वर्तयितुं यतख / दिनावसानोत्सुकबालवत्सा विमुच्यतां धेनुरियं महर्षेः // 106 // ' क्रोधस्य यद्यपि भामादयो मानभेदाश्चतुर्विंशतिः संभवन्ति तथापि ललिताललितोभयभेदेन रूपेण क्रमेण सर्वसंग्रहात्तत्र त्रय एव प्रकाराः प्रदर्श्यन्ते // .. 1. 'भीममन्युत्रासादयः' क.ख. 2. 'प्रसुप्तप्रलयमत्यादीनां' क.ख. 3. 'तु' ख. क. पुस्तकयो स्ति. 4. 'रसनिष्पत्ती वर्तते' क.ख. 5. 'तथाप्येकशोऽप्येतद्रसनिष्पत्तिरस्तीति प्रदर्यन्ते' क.स. 6. 'पुरस्तटी' क.ख. 7. 'भीकादयो' क., 'क्रोधस्य भीमादयो' ख. 8. 'मानमेदाः' इत्यस्य 'विशेषाः' इति टिप्पणरूपेण घ., 'विशेषाः' क.ख.
SR No.004397
Book TitleSarasvatikanthabharanam
Original Sutra AuthorN/A
AuthorDhareshvar Bhojdev, Kedarnath Sharma, Vasudev L Shastri
PublisherPandurang Jawaji
Publication Year1934
Total Pages894
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy