SearchBrowseAboutContactDonate
Page Preview
Page 692
Loading...
Download File
Download File
Page Text
________________ 5 परिच्छेदः / सरस्वतीकण्ठाभरणम् / चारिभावैर्वागारम्भादिभिरनुषज्यमानो निष्पन्नः शान्त इत्यभिगीयते // अन्ये पुनरस्य शमं प्रकृतिमामनन्ति स तु धृतेरेव विशेषो भवति // ' 'साधारण्यान्निरातङ्कः कन्यामन्योऽपि याचते। . किं पुनर्जगतां जेता प्रपौत्रः परमेष्ठिनः // 77 // अत्र रामस्योदात्तप्रकृतेनिसर्गत एव तत्त्वाभिनिवेशिनी मतिर्नाकृत्यविषये प्रवर्तते, न च प्रवृत्तोपारमति, सा च सीतेयं मम खीकारयोग्येत्येवंरूपेण प्रवृत्ता रावणप्रार्थनालक्ष्मणप्रोत्साहनाभ्यामुद्दीप्यमाना समुपजायमानचिन्तावितर्कव्रीडावहित्थस्मृत्यादिभिः कालोचितोत्तरानुमीयमानैश्च विवेकचातुर्यौदार्यधैर्यादिभिः संसृज्यमानोदात्तरसरूपेण निष्पद्यते / / 'अपकर्ताहमस्मीति मा ते मनसि भूद्भयम् / . विमुखेषु न मे खड्गः प्रहर्तुं जातु वाञ्छति // 78 // ' अत्र मयास्यापकारः कृत इति बच्चेतसि मयं तन्माभूत् 'पराङ्मखेषु मे खड्गः कदाचिदपि न प्रहर्तुमुत्सहते' इति सर्वदैव रूढोऽहंकारः प्रतीयते / सोऽयं गर्वप्रकृतिरुद्धतो नाम रसः / केचित् पुनः 'आस्थामालम्ब्य नीतेषु वशं क्षुद्रेष्वरातिषु / व्यक्तिमायाति महतां माहात्म्यमनुकम्पया / / 79 // ' / इत्येवमूर्जस्वीत्युदात्तपक्षे निक्षिपन्तः पूर्वोक्तमेव गर्वप्रकर्षोदाहरणं धृतायुधो यावदहमित्याधुद्धतनिष्पत्तौ वर्णयन्ति // रतिविशेषेषु नैसर्गिकी यथा'इयं महेन्द्रप्रभृतीनधिश्रियश्चतुर्दिगीशानवमन्य मानिनी। ' अरूपहार्य मदनस्य निग्रहापिनाकपाणिं पतिमाप्तुमिच्छति // 8 // ' 1. 'इति गीयते' क.ख. 2. 'प्रवृत्तोपरमति' क.ख. 3. संसृज्यमान उदात्तरसरूपेण' क. 4. 'यत्ते चेतसि भयम्' ख. 5. 'न मम खड्गः पराङ्मुखेषु कदाचिदपि प्रहर्तुमुत्सहत' क.ख.ग. 6. 'अवमत्य मानिनी' क.ख. "..
SR No.004397
Book TitleSarasvatikanthabharanam
Original Sutra AuthorN/A
AuthorDhareshvar Bhojdev, Kedarnath Sharma, Vasudev L Shastri
PublisherPandurang Jawaji
Publication Year1934
Total Pages894
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy