SearchBrowseAboutContactDonate
Page Preview
Page 684
Loading...
Download File
Download File
Page Text
________________ 5 परिच्छेदः। सरखतीकण्ठाभरणम् / अत्र लोलदृष्टिता करावधूननं च स्त्रीणां खभावभीरुत्वविलासित्वाभ्यामपि भवतीति त्रासाविर्भावेऽप्यसमर्थमिति नानुबन्धो भवति / * अनिष्टाभ्यागमोत्प्रेक्षां शङ्कामाचक्षते बुधाः। .. तद्रूपेण रसस्य प्रकर्षों यथा'सहसा मा साहिजउ पिआगमो तीअ विरहकिसिआए। . अच्चंतपहरिसेण वि जा अ मुआ सा मुआ चेअ // 54 // . [सहसा मा साध्यतां प्रियागमस्तया विरहकृशया / अत्यन्तप्रहर्षेणापि या च मृता सा मृतैव // ] अत्र विरहिण्याः कार्यातिशयमुद्रीक्षमाणायाः कस्याश्चिद्वयस्यायाः स्नेहातिशयात् 'प्रेम पश्यति भयान्यपदेऽपी ति प्रियागमप्रहर्षातिशयभावेऽप्यसहिष्णुतया तन्मरणशका प्रकृष्यते // विरहादेर्मनस्तापः शरीरातकदो गदः॥१५८॥ तद्रूपेण रसस्य जन्म यथा'स्थितमुरसि विशालं पद्मिनीपत्रमेतत् कथयति न तथान्तर्मन्मथोत्थामवस्थाम् / . अतिशयपरितापग्लापिताभ्यां यथास्याः स्तनयुगपरिणाहं मण्डलाभ्यां ब्रवीति // 55 // ' .. : अत्र सागरिकायाः स्तननिहितसरोजिनीदलग्लापनेन वपुःसंतापो 'निष्पद्यते // बलसापचयो ग्लानिराधिव्याधिप्रकर्षभूः / तद्रूपेण रसस्यानुबन्धो यथा"किसलयमिव मुग्धं बन्धनाद्विप्रलूनं हृदयकुसुमशोषी दारुणो दीर्घशोकः / 1. 'शरीरान्तकदो गदः' ख. 2. 'वन्दनादिप्रलूनम्' घ. ..
SR No.004397
Book TitleSarasvatikanthabharanam
Original Sutra AuthorN/A
AuthorDhareshvar Bhojdev, Kedarnath Sharma, Vasudev L Shastri
PublisherPandurang Jawaji
Publication Year1934
Total Pages894
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy