SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ 1 परिच्छेदः। सरखतीकण्ठाभरणम् / 505 विशेषोकिरिति लक्षणम् / एवं जास्यादावप्यादिपदाव्यसंग्रहः / विशेषदर्शनाअत्यनेन विभावनातो भेद उक्तः / तत्र हि नातिशयो वाच्यः किंतु. कारणान्तरम् / इह तु गुणादिप्रतिषेधेन पदार्थानामतिशय इति / गुणादीनां वैकल्यादर्शनेऽपि सा भवतीत्याह-वैकल्येति // सा गुणवैकल्येन यथा___ 'न कठोरं न वा तीक्ष्णमायुधं पुष्पर्धन्वनः / तथापि जितमेवाभूदमुना भुवनत्रयम् // 165 // ' ___ अत्र तीक्ष्णेनाकठोरेण चायुधेन पुष्पधन्वा त्रीणि जगन्ति विजयत इति तस्य प्रभावातिशयः प्रतीयते; सेयं प्रतीयमानविशेषहेतुर्गुणवैकल्यवती विशेषोक्तिः // न कठोरमित्यादि / कामस्य प्रहरणं न कठिनं न वा निशितम् / तथाप्यमुना कामेन लोकत्रयं जितमेवासीत् / पुष्पधन्वन इत्यनेनाकठोरत्वमतीक्ष्णत्वं च दर्शितम् / पुष्पस्यैवासत्त्वात् / अत्र काठिन्यादिगुणवैकल्यमतिशयविजयप्रदर्शनायोक्तमिति गुणवैकल्यवतीयम् // जातिवैकल्येन यथा'न देवकन्यका नापि गन्धर्वकुलसंभवा। . तथाप्येषा तपोभङ्गं विधातुं वेधसोऽप्यलम् // 166 // " अत्र देवकन्यकात्वाभावेऽप्येषा वेधसोऽपि तपोभङ्गं विधातुमलमिति वर्णनीयाया रूपातिशयः प्रतीयते; सेयं प्रतीयमानविशेषहेतु र्जातिवैकल्यवती विशेषोक्तिः // __ न देवेत्यादि / एषा न देवकन्या नापि गन्धर्ववंशजा तथापि वेधसो ब्रह्मणोऽपि तपोभङ्गं विधातुमलं समर्था / अत्र देवत्वादिजातिनिषेधो विशेषस्तु मानुषीत्वेन तत्कार्यकरणम् // . ... ..... क्रियावैकल्येन यथा'न बद्धा भृकुटिर्नापि स्फुरितो रदनच्छदः / न च रक्ताभवदृष्टिर्जितं च द्विषतां कुलम् / / 167 //
SR No.004397
Book TitleSarasvatikanthabharanam
Original Sutra AuthorN/A
AuthorDhareshvar Bhojdev, Kedarnath Sharma, Vasudev L Shastri
PublisherPandurang Jawaji
Publication Year1934
Total Pages894
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy