SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ 3 परिच्छेदः।] सरखतीकण्ठाभरणम् / 367 ____ अत्रेन्दुमरीचिषु पयःप्रभृतिभ्रान्तिभूम्नायं भ्रान्तिमान् नाम प्रान्तेरेव भेदः // भ्रान्तिमाला यथा'नीलेन्दीवरशङ्कया नयनयोर्बन्धूकबुद्धयाधरे ___ पाणी पद्मधिया मधूककुसुमभ्रान्त्या तथा गण्डयोः / लीयन्ते कबरीषु बान्धवजनव्यामोहजातस्पृहा दुर्वारा मधुपाः कियन्ति तरुणि स्थानानि रक्षिष्यसि // 115 // ' अत्र युवत्यवयवेषु नयनादिषु मधुव्रतानां येयं नीलोत्पलादिबुद्धिः सेयं मालाक्रमेणोपजायमाना भ्रान्तिमाला भ्रान्तेरेव भेदः // ___ प्रान्त्यतिशयो द्वेधा-वितर्कहेतुर्विपर्ययहेतुश्च / तयोः पूर्वमुपमाभ्रान्तिमाचक्षते, द्वितीयं तु भ्रान्त्यतिशयमेव / तत्रोपमाभ्रान्तिर्यथा'हृतोष्ठरागैर्नयनोदबिन्दुभिर्निममनाभेर्निपतद्भिरङ्कितम् / च्युतं रुषा भिन्नगतेरसंशयं शुकोदरश्याममिदं स्तनांशुकम् // 116 // ' अत्र शाहलेऽपि समुत्पन्नस्तनांशुकभ्रमस्य पुरूरवसो योऽयं सादृश्यातिशयितो वितर्कः सेयमुपमाभ्रान्तिः // * तयोः पूर्वमिति / तत्त्वेन प्रतीयतो मध्ये मनाक्तव्यतिरेकमुल्लिखितो नूनं भेदाभेदतुल्यतया मनसि सादृश्यं प्रवर्तत इति भावः / असंशयमिति पदेन प्रकर्षों वितर्कश्च प्रत्यायितः // भ्रान्त्यतिशयो यथा 'दिश्यार्जटिजूटकोटिसरिति ज्योत्स्नालवोद्भासिनी ... शाशाङ्की कलिका जलभ्रमिवशाटाग्दृष्टनष्टा मुदम् / यां चञ्चच्छफरीभ्रमेण मुकुलीकुर्वन्फणाली मुहुमुहाँल्लक्ष्यमहिर्जिघृक्षतितमामाकुञ्चनप्राञ्चनैः // 117 //
SR No.004397
Book TitleSarasvatikanthabharanam
Original Sutra AuthorN/A
AuthorDhareshvar Bhojdev, Kedarnath Sharma, Vasudev L Shastri
PublisherPandurang Jawaji
Publication Year1934
Total Pages894
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy