SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ 3 परिच्छेदः / सरखतीकण्ठाभरणम् / ___359 शशाम वृष्टिरिति / भूभृतो राशश्च // - स एव प्रतीयमानसादृश्ययोर्यथा- . - 'अमूविलासमस्पृष्टमदरागं मृगेक्षणम् / इदं तु नयनद्वन्द्वं तव तद्गुणभूषितम् // 99 // ___अत्र कान्तामृगेक्षणयोः प्रतीयमानसादृश्ययोद्धूविलासमदरागौ तद. भावौ च विसदृशौ भेदकाविति सोऽयं प्रतीयमानसादृश्ययोरसदृशव्यतिरेकः॥ - सदृशासदृशव्यतिरेकाभ्यामेव तदुभयव्यतिरेकोऽपि व्याख्यातः / यथा निर्मलेन्दु नभो रेजे विकचाब्जं बभौ सरः। परं पर्यश्रुवदनौ मम्लतु तरावुभौ // 100 // ' अत्र नभःसरसोः प्रतीयमानसादृश्ययोर्निर्मलेन्दुत्वं विकचाब्जत्वं च प्राग्वदेव सदृशे भेदके; ताभ्यां च मुखचन्द्रमुखकमलाभ्यां मनोहराहादकत्वाभ्यां च प्रतीयमानसादृश्ययोरेव रामलक्ष्मणयोर्येयं मुखपर्यश्रुता, तनौ च म्लानिर्निर्मलेन्दुताविराजमानयोर्विकचाब्जत्वशोभमानत्वयोश्च सा विसदृशीति सोऽयं सदृशासदृशभेदकत्वकृतभेद एव तदुभयव्यतिरेकः // ताभ्यां च मुखचन्द्रेति / मुखस्य चन्द्रकमलभावोऽनादिकविकल्पनासिद्ध इति तेनापि रूपेण प्रतीयमानसादृश्यत्वमुक्तम् // ननु मिथो व्यतिरेकभेदगणनमनुपपन्नं सदृशासदृशव्यतिरेकस्यापि संभवादित्यत आह एतेनैकव्यतिरेकादिसंभेदोऽपि व्याख्यातः / यथा'मिथ्या देव भुजेन तेऽल्पविभवः कल्पद्रुमः स्पर्धते नह्येनं भुवनत्रयाभयमहासत्री कृपाणोऽञ्चति /
SR No.004397
Book TitleSarasvatikanthabharanam
Original Sutra AuthorN/A
AuthorDhareshvar Bhojdev, Kedarnath Sharma, Vasudev L Shastri
PublisherPandurang Jawaji
Publication Year1934
Total Pages894
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy