SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ 292 काव्यमाला। संबोधनैरियं धेनुः क्लप्ता सैकक्रियापदैः। लक्षत्रयं सहस्राणि षष्टिश्लोकान्प्रसूयते // 120 // एषान्त्यपदभेदेन संभ्रमादिद्विरुक्तिभिः / यावद्वोधं पुनः सूते प्रयतश्लोकतर्णकान् // 121 // दुर्गे इति / संबोधनैरिति / अत्र हि स्रग्धराभिधाने छन्दसि पादत्रयपदानुरोधेनान्त्यपादद्वयेनैकैकमेव पदं तुर्यपादे परिकल्प्यमिति सर्वत्र नवसु पदेषु स्थितेषु पदचतुष्टये पदपश्चके चोपादीयमाने प्रथमे आपातलिकायां पञ्चविंशतो द्वितीये एकया प्राच्यवृत्त्या सह वैतालीयके यदि वा पञ्चभिः प्राच्यवृत्तिभिः सममौपच्छन्दसिके चतुर्विंशतौ तृतीयवैतालीय एव चतुर्विंशतो चतुर्थे च पादे प्राच्यवृत्तिद्वये सममापातलिकायां षोडशभिरेकया प्राच्यवृत्त्या वैतालीयप्राच्यवृत्त्या सह वैतालीयैः षड्भिस्तथैवौपच्छन्दसिके द्वाभ्यामिति चतुर्विशतो विकल्पेषु प्रभवत्सु पञ्चविंशत्याहतेषु चतुर्विंशतौ शतानि षट् / षनिश्च शतैराहतेषु पञ्चविंशतो सह. स्राणि पश्चदश / तैराहतेषु चतुर्विशती लक्षाणि त्रीणि सहस्राणि च षष्टिः तर्णकाः श्लोकाः समुत्पद्यन्त इतीयं लक्षधेनुः / एषेति / तथा ह्यत्र पादत्रये नवसु तुर्यपादे च दशसु / त्रये पदचतुष्के पदपञ्चके चोपादीयमाने प्रथम औपच्छन्दसिक एकस्य पदस्य द्विरुक्त्या विंशतो यदि वा आपातलिकायां दश / वैतालीये पञ्चदशसु औपच्छन्दसिके उदीच्यवृत्तिद्वयेन यद् वैतालीये चतसृभिरुदीच्यवृत्तिभिः सममेकोनविंशतिरिति च पञ्चविंशतो तृतीयस्मिन्नौपच्छन्दसिके पञ्चभिः प्राच्यवृत्तिभिः सममेकादश / वैतालीये तथैव चतुर्दश औपच्छन्दसिके तिसृभिः प्राच्यवृत्तिभिः सह षडिति विंशतौ तृतीयस्मिन्नौपच्छन्दसिके तिसृभिरुदीच्यवृत्तिभिः समं पञ्चविंशतो चतुर्थे त्वापातलिकायामेक एव / द्विरुक्त्यादिना षोडशभिः प्राच्यवृत्तिभिः सममशीतौ विकल्पेषु प्रभवत्सु विंशत्याहतपञ्चविंशतौ पञ्चविंशत्या द्वाविंशती पश्चशताधिकानि द्वादशसहस्राणि तैरप्याहतेषु अशीतौ दशलक्षाणि. तर्णकाः श्लोकाः समुत्पद्यन्त इतीयं प्रयुतधेनुः // कोटिधेनुर्यथा'स्थूलं दत्से सूक्ष्मं धत्से भुवि भवसि रभसि रमसे रमे दिवि मोदसे छिन्त्से बाढं भिन्त्से गाढं रुषिमिषसि धनुषि मनुषे जये पुरि जम्भसे /
SR No.004397
Book TitleSarasvatikanthabharanam
Original Sutra AuthorN/A
AuthorDhareshvar Bhojdev, Kedarnath Sharma, Vasudev L Shastri
PublisherPandurang Jawaji
Publication Year1934
Total Pages894
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy