SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ 290 काव्यमाला / यतिविच्छेदिनी ह्येषा श्लोकधेनुरनुत्तमा / छन्दोभेदाच्छतमियं प्रसूते श्लोकतर्णकान् // 117 // वन्येति / वरेण देवताप्रसादेन चरितो निरर्गलप्रसरो गुणानामाश्रयो लटभं मनोज्ञं च ललितं विलासो यस्याः सा तथा / यतिविच्छेदिनीति / अत्र करणम्-'प्रतिलोमं विनिक्षेप्यमनुलोममधः क्षिपेत् / स्थितेनागन्तुकं हन्यादीप्सितेन विभाजयेत् // ' स्थितं प्रतिलोममागन्तुकं क्रमविन्यस्तमीप्सितं हि प्रतिलोमस्य क्रमेण फलं गुणकारस्तथैवानुलोमं भागहारः / अनेन क्रमेणैकैकयतियोजने सप्त श्लोकाः / यतिद्विकयोजने चैकविंशतिः / यतित्रिकयोजने च पश्चत्रिंशत् / यतिचतुष्कयोजनेऽपि तावन्त एव ।यतिपञ्चकयोजने पुनरेकविंशतिः / षड्यतियोजने सप्त / सप्तयतियोजने त्वेकः / सर्वमेलनेन च सप्तविंशत्यधिकं शतम् / अत्र च क्रियाहीनत्वेन कारकविहीनत्वेन च पदावयववत्तया पदावयवमात्रत्वेन च निरर्थकान् षड्विंशतिमपास्य श्लोकधेनुरेकैव वृत्तभेदेन शतं श्लोकतर्णकान्प्रसूते / तथाहि / प्रथमद्वितीयचतुर्थीभिर्यतिभिरत्युक्ता जातिः / तृतीयपञ्चमीभ्यां सुप्रतिष्ठा / षष्ठ्या गायत्री / सप्तम्या चोष्णिगिति / एकगणनायां वृत्तभेदः / एवं द्विकादिगणनेऽपि गवेषणीयम् // - सहस्रधेनुर्यथा'नखमुखपाणिकण्ठचिकुरैगतिभिः सहसा स्मितेन ललितेषु दृशा . मणिशशिपद्मकम्बुचमराः करिणः पुतनोः सुधा च हसिता हरिणाः। फणिगणसिद्धसाध्यदयिता न समाः सकलास्त्वया च खभुवच्छलिताः तव बलदर्परूपविजिता नितरां विबुधाश्चिराय चतुरैश्चरितैः 340' पदविच्छेदिनी ह्येषा श्लोकधेनुरनुत्तमा / छन्दोभेदादशशतं प्रसूते श्लोकतर्णकान् // 118 // नखेति / हे ललिते गौरि, तव शोभनया दृशा सुतनोः शोभनस्य शरीरस्य / साध्या देवविशेषाः खभुवो ग्रहताराद्याः ( राप्यत इति राप्यम् / 'आसुवपिरपित्रपिचमश्च' इति रापतिभाषितमित्यर्थः / ) दर्येति पाठेन वा योजनीयम् / पदविच्छेदिनीति / पदान्यत्र प्रतिपादं सुधाकलशाभिधाने छन्दसि षड् विभज्यन्ते / यद्यपि द्वितीयतृतीयपादयोश्चकाराभ्यां नकारेण चतुर्थपादे तवेति
SR No.004397
Book TitleSarasvatikanthabharanam
Original Sutra AuthorN/A
AuthorDhareshvar Bhojdev, Kedarnath Sharma, Vasudev L Shastri
PublisherPandurang Jawaji
Publication Year1934
Total Pages894
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy