SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ 2 परिच्छेदः / / सरस्वतीकण्ठाभरणम् / 233 अत्र डकारादीनामीपत्स्पृष्टतादिभिरेकत्वेऽपि भेदावमास इति तत्त्वेऽप्येकत्वनिहवेन नागरानुप्रासोऽयम् // तत्त्वेऽपीति / द्रुतादौ वृत्तिमात्रं भिद्यते, न तु रूपमिति महाभाष्यकारोक्तदिशा येषामेकस्थानत्वेऽपीषत्स्पृष्टतरत्वादिकृता भेदप्रथा ते डकारादयः / कति. पयेऽस्य विषयास्तानुद्दिश्य क्रमेणोदाहरति-क्रोड इत्यादि / अङ्कगतस्य बालकस्य वक्षसा पीडनं संक्रान्तकमालिङ्गनमामनन्ति / अनेन किल प्रच्छन्नप्रियगोचरो गाढालिङ्गनमनोरथः प्रकटितो भवति / कर्णयोरुपांशु यदभिधीयते तेन तुल्यमिदमिति विदग्धसहचरीपरिहासोक्तिरियम् / अत्र च क्रोडडिम्भेत्यादौ डकारवकारयकाराणामीषत्स्पृष्टतरत्वादिभेदः श्रुतिसाजात्यं च सुप्रसिद्धमेवेति // तथैव ढकारवकारलकाराणां यथा'नवोढे त्वं कुचाट्यापि नोपगूढाय दौकसे / वहन्बाहुलते हीणो वरः पुलकलविते // 173 // अत्र ढकारादीनामीपस्पृष्टतादिभिरेकत्वेऽपि भेदावभास इति तत्त्वेऽप्येकत्वनिहवेन नागरानुप्रासोऽयम् // ढकारवकारलकाराणामिति / वकारोदाहरणं दत्तमपि वर्णान्तरसरलतया पुनर्दीयते / उपगूढमालिङ्गनम् / अपिशब्दो भिन्नक्रमः / उपगूढायापि न ढौकसे / दूरे पततः कचग्रहादिकेलिषु प्रवृत्तिर्लङ्घनेन सर्वाङ्गीणः पुलकोद्भदो बहिर्व्यावर्तनमन्तरनुवर्तनं च मुग्धाङ्गनाजातिः / अत्रापि ढकारादीनामीषत्स्पृ'टतादिभेदः मुबोध एव // उभयगुणयोगान्नात्यप्रसिद्ध उपनागरः / यथोच्यते डलयोरैक्यमित्यादिवाक्यैर्यस्यानुमीयते / , समानश्रुतितान्योन्यं सोऽनुप्रासः प्रशस्यते // 75 // स डलयोरैक्येन यथा‘शयने यस्य शेषाहिः सनीडे वडवानलः / महासाहसिनामय्यं तमीडे जडशायिनम् // 17 // सोऽयमुपनागरः श्रुत्यनुप्रासः //
SR No.004397
Book TitleSarasvatikanthabharanam
Original Sutra AuthorN/A
AuthorDhareshvar Bhojdev, Kedarnath Sharma, Vasudev L Shastri
PublisherPandurang Jawaji
Publication Year1934
Total Pages894
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy