SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ 204 काव्यमाला। मदन एव दारु काष्ठं तत उत्थितः / शिखा मञ्जरीच्छटा ज्वाला च / खभावताम्रमेव मधुमदेन यद्विगुणमरुणं हूणमुखं तच्छविरुणो भयंकरो मम हृदा समं दिशोऽरुणद्रुद्धवान् / आम्रवणमेव तापकारितयानलो वह्निः / अत्रं यद्यपि प्रतिपादमपि व्यवायेन मध्ययमकं संभवति, तथापि न तथोल्लेखीति पूर्वापरसदृशमेवोदाहृतम् // अन्तयमकं यथा- 'तव प्रिया सच्चरिताप्रमत्त या विभूषणं धार्यमिहांशुमत्तया / रतोत्सवामोदविशेषमत्तया न मे फलं किंचन कान्तिमत्तया // 110 // सच्चरिताप्रमत्तेति / सोत्प्राप्त संबोधनद्वयम् / या तव प्रिया रतोत्सवामोदविशेषेण रतिकेलिहर्षप्रकर्षेण मत्ता तयेदमंशुमन्मणिकिरणकरम्बितं विभूषणं धार्यम् / अर्हे कृत्यः / त्वया किमिति न धार्यमित्यत आह—न मे भूषणसंपाद्यया कान्या किंचन फलम् / 'कामिनां मण्डनश्रीव्रजति हि सफलत्वं वल्लभालोकनेन' इति न्यायात् // आदिमध्ययमकं यथा'घनगिरीन्द्रविलङ्घनशालिना वनगता वनजातिलोचना / जनमता ददृशे जनकात्मजा तरुमृगेण तरुस्थलशायिनी // 111 // अत्रापि सान्तरनिरन्तरप्रसङ्गे पादभेद एव संकरः / संकीर्णव्य पेतानि तु प्रतिपादमेव संभवन्तीत्युदाहरति-आदिमध्येति / घना गिरीन्द्रा माल्यवन्तमारभ्य सुवेलं यावद्गिरिपरम्परा / वनजं पद्मम् / जनानां मता संमता। तरुमृगः शाखामृगो हनूमान् / अत्र घनेत्यादिशब्दभागः पादचतुष्टयेऽपि गिरीन्द्रेत्याद्यनावृत्तव्यवहित एवादिमध्ययोरावर्तत इति // आद्यन्तयमकं यथा'विहगाः कदम्बसुरभाविह गाः कलयन्त्यनुक्षणमनेकलयम् / भ्रमयन्नुपैति मुहुरभ्रमयं पवनश्च धूतनवनीपवनः // 112 // गाः कूजितानि कदम्बसौरभानीतवर्षर्तुपयोदाः कलयन्ति कलरूपतां नयन्ति / कूजितक्रियान्तरालकालो द्रुतमध्यविलम्बितात्मानेको लयः / अभ्रं मेघः। नीपः
SR No.004397
Book TitleSarasvatikanthabharanam
Original Sutra AuthorN/A
AuthorDhareshvar Bhojdev, Kedarnath Sharma, Vasudev L Shastri
PublisherPandurang Jawaji
Publication Year1934
Total Pages894
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy