________________ (383) धातोः णकः प्रत्ययो भवति / क्त्याद्यपवादः / पर्यायः क्रमः परिपाटिरिति यावद् / भवतः आसिका, शायिका, अग्रगामिका आसितुं शयितुमने गन्तुं च भवतः क्रम इत्यर्थः / अहणमहः योग्यता। अर्हति भवान् इक्षुभक्षिकाम, ओदनभोजिकाम् , पयःपायिकाम् / ऋणं यत् परस्मै धार्यते इक्षुभक्षिकां मे धारयसि। उत्पत्तिः जन्म इक्षुभक्षिका मे उदपादि। प्रश्ने कां त्वं कारिकामकार्षीः / आख्याने सर्वां कारिकामकार्षम् / नाम्नि पुंसि च / 5 / 3 / 121 / धातोः स्त्रियां भावाकोंः सज्ञायां णकः प्रत्ययो भवति / यथादर्शनं पुंसि च / प्रच्छर्दनं प्रच्छद्यतेऽनया वा प्रच्छर्दिका। एवं प्रवाहिका / विचर्चिका / विपादिका / एता रोगसञ्ज्ञाः / उद्दालकपुष्पाणि भन्यन्ते यस्यां सा उद्दालकपुष्पभञ्जिका / एवं वारणपुष्पप्रचायिका। अभ्योषखादिका / शालभञ्जिका / एवंनामानः क्रीडाः / पुंसि अरोचनं न रोचतेऽस्मिन्निति वा अरोचकः / अनाशकः / उत्कन्दकः / उत्कर्णकः / भावे / 5 / 3 / 122 / भावे धात्वर्थनिर्देशे स्त्रियां धातोः णकः प्रत्ययो भवति / आसिका / शायिका / जीविका / कारिका / क्लीबे क्तः / 5 / 3 / 123 / नपुंसकलिङ्गे भावेऽर्थे धातोः क्तः प्रत्ययो भवति / हसितं