SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ (230) गत इति किम् पितुः हरति चोरयतीत्यर्थः / ताच्छील्यादिति किम् नटो राममनुहरति / कृष्णमनुहरति / पूजाऽऽचार्यकभृत्युत्क्षेपज्ञानविगणनव्यये नियः / 3 / 3 / 39 / पूनादिषु गम्यमानेषु नयतेः कर्तर्यात्मनेपदं भवति / नयते विद्वान् स्याद्वादे / माणवकमुपनयते / कर्मकरान उपनयते। शिशुमुदानयते नयते तत्त्वार्थे / कारं विनयन्ते मद्राः / शतं विनयते / एष्विति किम् अजां नयति / ' कर्तृस्थामूर्ताऽऽप्यात् / 3 / 3 / 40 / कर्तृस्थममूर्तमाप्यं कर्म यस्य तस्माद् नयतेः कर्तर्यात्मनेपदं भवति / श्रमं विनयते / कर्तृस्थेति किम् ? शैत्रो वैष्णवस्य मन्यु विनयति / अमूर्तेति किम् ? श्लेष्माणं विनयति / आप्य इति किम् ? बुद्ध्या विनयति। शदः शिति / 3 / 3 / 41 / शिद्विषयाच्छंदेः कर्तर्यात्मनेपदं भवति / शीयते / शितीति किम् ? शेत्स्यति / म्रियतेरद्यतन्याशिषि च / 3 / 3 / 42 / अद्यतनीविषयादाशीविषयाच्छिद्विषयाच म्रियतेः कर्तर्यात्म नेपदं भवति / अमृत अमृषाताम् अमृषत / मृषीष्ट / म्रियते / नियेत / म्रियताम् / अनियत / अन्यत्र ममार /
SR No.004395
Book TitleDharmdipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy