________________ ( 227) निविशः।३।३।२४ / निपूर्वाद् विशेरात्मनेपदं भवति / निविशते / उपसर्गादस्योहो वा / 3 / 3 / 25 / उपसर्गपूर्वाभ्यामाभ्यां कर्तर्यात्मनेपदं वा भवति। विपर्यस्यति, विपर्यस्यते / समूहति, समूहते / उत्स्वराद् युजेरयमतत्पात्रे / 3 / 3 / 26 / उत्पूर्वात् स्वरान्तोपसर्गपूर्वाञ्च युजेः कर्तर्यात्मनेपदं भवति, न चेद् यज्ञे यत् पात्रं तद्विषयो युज्धात्वर्थः / उद्युङ्क्ते / उपयु ङ्क्ते / उत्स्वरादिति, किम् ? संयुनक्ति। अयज्ञतत्पात्र इति किम् ! द्वन्द्वं यज्ञपात्राणि प्रयुनक्ति / परिव्यवात् क्रियः / 3 / 3 / 27 / एभ्यः क्रियः कर्तर्यात्मनेपदं भवति / परिक्रीणीते / विक्रीजीते / अवक्रीणीते / उपसर्गादित्येव उपरि क्रीणाति / परावेर्जेः / 3 / 3 / 28 / आभ्यां परात् जयतेः कर्तर्यात्मनेपदं भवति / पराजयते / विजयते / उपसर्गादित्येव बहुवि जयति वनम् / समः क्ष्णोः / 3 / 3 / 29 / .. सम्पूर्वात् क्ष्णौतेः कर्तर्यात्मनेपदं भवति / संक्ष्णुते शस्त्रम् / समिति किम् ? क्ष्णौति / उपसर्गादित्येव आयसं क्ष्णौति /