SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ 71 अलंकारसर्वस्वम् / -साध्यः सिद्धश्च / साध्यो यत्र विषयिणोऽसत्यतया प्रतीतिः / असत्यत्वं च विषयिगतस्य धर्मस्य विषय उपनिबन्धे विषयिसंभवित्वेन विषयासंभवित्वेन च प्रतीतेः। धर्मो, गुणक्रियारूपः तस्य संभवासंभवप्रतीतौ संभवाश्रयस्य तत्रापरमार्थतया असत्यत्वं प्रतीयते, इतरस्य तु परमार्थतया सत्यत्वम् / यस्यासत्यत्वं, तस्य सत्यत्वप्रती. तावध्यवसायः साध्यः / अतश्च व्यापारप्राधान्यम् / सिद्धो यत्र विषयिणो वस्तुतोऽसत्यस्यापि सत्यताप्रतीतिः / सत्यत्वं च पूर्वकस्यासत्यत्वनिमित्तस्याभावात् / अतश्चाध्यवसितप्राधान्यम् / तत्र प्रतिपत्तिरिति विषयान्तःकरणात् / संभावनाप्रत्ययात्मकत्वेऽपि साध्याध्यवसायस्य वस्त्वभिप्रायेण तद्वैलक्षण्यं प्रदर्शयितुमाह-साध्य इत्यादि। विषयपरिशोधनद्वारेण प्रमाणानुग्राहकत्वात्संभावनाप्रत्ययस्य पुरुषेणानेन भवितव्यमित्यत्र वस्तुवृत्तेन पुरुषस्य सत्यत्वम् / इह पुनस्तत्र तस्य प्रयोजनपरतयाध्यवसीयमानत्वात्संभावनाविषये संभाव्यमानस्य वस्तुनो न सत्यत्वमित्याह-असत्यतया प्रतीतिरिति / अत्रैव निमित्तमाह-असत्यत्वं चेत्यादि / विषय उपनिबन्ध इति / तद्गतधर्माभेदेनाध्यवसित इत्यर्थः / अनेन सप्रयोजनत्वमेवोपोद्वलितम् / धर्म इति विषयिगतः। स एव चोत्प्रेक्षणे निमित्तम् / तस्येति धर्मस्य / संभावनाश्रयस्येति विषयिणः / तत्रेति संभावनाश्रये विषये / इतरस्येति असंभवाश्रयस्य विषयस्य / यस्येति विषयिणः। अतश्चेति / अध्यवसायस्य साध्यमानत्वात् / असत्यस्यापीति / वस्तुतो विषयिणस्तत्रासंभवात् / सत्यताप्रतीतिरिति / निश्चयखभावत्वादतिशयोक्तेः / असत्यत्वनिमित्तस्येति धर्मसंचारादेः / अतश्चेति धर्मसंचारान्निगीर्यमाणतायाः प्राधान्याभावात् / अध्यवसितप्राधान्यमिति / 1. 'विषयिणि सत्यतया' ख. 2. 'विषयगतस्य' क. 3. 'प्रतीतः' क.४, . 'तत्र पर' ख. 5. 'अपरमार्थ' ख. 6. 'यस्य सत्यत्वं' ख. 7. 'सत्यतया' ख. 8. 'विषयस्येति विषयिणः' ख.
SR No.004394
Book TitleAlankarsarvasva
Original Sutra AuthorN/A
AuthorGirijaprasad Dvivedi
PublisherPandurang Javaji
Publication Year1939
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy