SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ अलंकारसर्वस्वम् / अत्र हि मुखादौ चन्द्रादेवृत्त्यभावो बाधितः संश्चन्द्रार्थः खात्मसहचारिणो गुणांलक्षयति न तु मुखादेविषयस्य निषेधः प्रतीयते। मुखशब्दादेः स्वार्थ एव प्रवृत्तेः। पर्यवसाने ह्यत्र मुंखादि चन्द्रादिगुणविशिष्टं प्रतीयते / न तु मुखादेर्बाधः / न मुखमित्येवमादेः प्रैत्यवमर्शाभावात् / नापि निदर्शना / संबन्धविघटनाद्यभावात् / आदिशब्दाच तृतीययापि क्वचिदसत्यत्वं प्रतिपाद्यते / यथा-'मद्बाह्वोर्व्यवहारमुज्झतु लता कण्ठस्थले तावके मा कार्षीरतिसाहसं प्रियतमे दासस्तव प्राणिति / नीता वृद्धिममी त्वयैव कुसुमैबाष्पायमाणा द्रुमा गृह्णन्ति क्षुरिकामिवालिपटलव्याजेन पाशच्छिदे // ' अत्र कुसुमैरिति तृतीययापह्नवनिबन्धनम् / आरोपगभेत्वाच्चेर्य सादृश्याद्वा भवति संबन्धान्तराद्वा / सादृश्येऽप्यस्याः साधारणधर्मस्य त्रयीगतिः। तत्रानुगामिता यथा-'तरुणतमालकोमलमलीमसमेतदयं कलयति चन्द्रमाः किल कलङ्कमिति ब्रुवते / तदनृतमेव निर्दयविधुंतुददन्तपदव्रणविवरोपदर्शितमिदं हि विभाति नमः // ' अत्र तमालमलीमसत्वमनुगामित्वेनोपात्तम् / शुद्धसामान्यरूपत्वं यथा-'अयं सुरेन्द्रोपवनाद्धरित्री स पारिजातो हरिणोपनीतः। न प्रापितोऽयं सुमनःबर्हः कश्मीरदेशोद्भवताभिमानम् // ' अत्रोपनयनप्रापणयोः शुद्धसामान्यरूपत्वम् / बिम्वप्रतिबिम्बभावो यथा-'न ज्योत्स्नाभरणं नभो न मिलितच्छायापथो वाम्बुदो नो ताराप्रकरो न चेदममृतज्योतिष्मतो मण्डलम् / क्षीरक्षोभमयोऽप्यपांनिधिरसों नेत्राहिना मन्दरः पृक्तोऽयं मणिपूग एष कलशश्चायं सुधानिर्झरः॥' अत्र ज्योत्स्नाभरणत्वस्य क्षीरक्षोभमयत्वं प्रतिबिम्बत्वेन निर्दिष्टम् / संबन्धान्तराद्यथा-'हेलोदञ्चन्मलयपवनाडम्बरेणाकुलासु. प्रेडाकेलिं कमपि भजतां चूतशाखालतासु / वाचालत्वं नयनुदभवत्कानने कोकिलानां मौनित्वं तत्पथिकहरिणीलोचनानां ववल्ग // ' अत्र कोकिलवाचालत्वस्य कारणस्य निषेधे पथिकस्त्रीमौनित्वस्य कार्यस्य विधिः / एवमारोपगर्भेयं सप्रपञ्चं दर्शिता अध्यवसायगर्भा पुनर्दयते यथा-'न लक्ष्मीसौन्दर्यान्न च सुरशरण्यीकृतसुरासुधादिज्येष्ठत्वान्न मुकुटमणित्वाद्भगवतः / यदेवं बालेन्दोर्दिशि विदिशि वन्द्यत्वमुदितं स्फुटत्वे तत्कान्तामुखकमलदास्यादुपनतम् // ' अत्र वन्द्यत्वस्य प्रभावादिहेतुकत्वे निगीर्य हेत्वन्तरमध्यवसितम् / यथा वा-'कलाभिस्तृप्त्यर्थं सुरपितृनृणां पञ्चदशभिः सुधासूतिर्देवः प्रतिदिनमुदेतीत्यसदिदम् / परिभ्राम्यत्येष प्रतिफलनमासाद्य भवतीकपोलान्तर्यु 1. 'प्रतीते' ख. 2. 'मुखादिभिः' ख. 3. 'प्रत्ययस्याभावार्थे नापि 'निदर्शना' क. 4. 'प्रवाहः' क. 5. 'सारम्' क. 6. 'तदेव' ख.
SR No.004394
Book TitleAlankarsarvasva
Original Sutra AuthorN/A
AuthorGirijaprasad Dvivedi
PublisherPandurang Javaji
Publication Year1939
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy