SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ अलंकारसर्वस्वम् / 235 दत्तफल इति नैषां किंचित्फलान्तरम् / अत एव रसाद्यङ्गभूतस्य व्यभिचारिणः स्थित्याद्यात्मध्वनिप्रकारत्वं भवतीति न वाच्यम् / तथात्वे चाभिधीयमाने निर्वेदादेः प्राधान्याभावात् ध्वनिव्यपदेश एव न युक्तः। अप्रधानस्य प्रधानत्वाभिधाने विरोधात् / ऐवं च गुणीभूतव्यङ्ग्यस्यापि ध्वनिव्यपदेशः केन प्रत्युक्तः / क्वचिदपि 'मुख्ये रसेऽपि तेऽङ्गित्वं प्राप्नुवन्ति कदाचन' इति नीत्या राजानुगतविवाहप्रवृत्तभृत्यवद्विभावानुभावव्यजितानां रसगुणीभावेनैषामेव प्राधान्यम् / यथा-'इतश्चारुप्रेमप्रणयसुकुमारा वरवधूरितः खेच्छालभ्यानुपमफलमूला वनमही। इतो मौर्वीनादोन्मुखनिखिलसैन्यो रणविधिः क्व नामायं तादृक्तरलहृदयो रज्यतु जनः // ' अत्र विभावानुभावाभ्यां व्यञ्जितः शृङ्गारादीनां रसानामप्ररूढत्वेन गुणीभावाद्वाक्यतात्पर्यविषयत्वेन विश्रान्तेश्चिन्ताख्यो व्यभिचारिभावः प्रधानम् / अत एवात्र भावस्थितेर्ध्वनिभेदत्वम् / एवं चात्र चिन्तायाः शृङ्गारादीन्प्रति तदङ्गत्वाभावान्न गुणीभावः / अत एव चात्र तत्परिपोषकत्वात्यागात्तदीयकार्याकरणाद्रसं प्रति गुणीभावात्स्खेनैव च निरतिशयप्रीतिकारित्वेन सचेतसां दत्तफलत्वानिजप्रयोजनासंपादकत्वविरहाद्राजानुगतविवाहप्रवृत्तभृत्यवन्मुख्यानपि रसाननादृत्य चिन्ताया एव वाक्यतात्पर्यविषयत्वेन प्राधान्यादङ्गित्वम्। अत एव च दृष्टान्तदान्तिकयोर्न कश्चिद्विषम उपन्यासः / वक्तुश्चात्र सरलहृदयत्वेनैकत्र तात्पर्येच्छाभावान्नैकतरपक्षाश्रयणमिति न कश्चिदपि रसस्य प्राधान्यम् / नाप्येषां परस्परविरोधात्संधिरिति व्यभिचारिभावस्यैव प्राधान्यम् / एवं च निर्वेदादीनां गर्भदासवत्कदाचिदपि प्राधान्यं [न] भवतीत्यपर्यालोचिताभिधानम् / गर्भदासस्यापि कदाचिदन्ततो गर्भदासी प्रत्यस्ति प्राधान्यम् / प्रधानाप्रधानभावस्यापेक्षिकत्वात् / 'क्वचिदप्यपरस्याङ्गम्' इति नीत्यैषामङ्गत्वे प्राधान्याभावादलंकारत्वम् / यथा-'कचकुचचिबुकाग्रे पाणिषु व्यापृतेषु प्रथमजलधिपुत्रीसंगमेऽनगधाम्नि / निबिडनिबिडनीवीग्रन्थिविषेसनेच्छोश्चतुरधिककराशा शाह्मिणो वः पुनातु // ' अत्र शृङ्गाररसस्याप्ररूढत्वाद्गुणीभावेन वाक्यतात्पर्यविषयत्वेनोपनिबैन्धमप्यौत्सुक्यं शाङ्गिविषयां रतिं प्रत्यङ्गमिति प्रेयोऽलंकारः / ननु च यद्यपि परस्याङ्गत्वे सत्येषामलंकारत्वं तद्रसाङ्गभूतत्वादेषां सर्वत्रैव तत्त्वं स्यादिति चेत्, नैतत्। यस्मानिमित्तान्तरेभ्यो लब्धसत्ताकस्याङ्गिभूतस्य वस्तुन उपस्काराधायकत 1. 'प्रधानस्य प्रधानत्वाभिधानविरोधात्' ख. 2. 'एवं गुणीभूत' क. 3. 'तत्परिपोषकत्वत्यागात्' ख. 4. 'निबद्धमप्यौत्सुक्यम्' ख.
SR No.004394
Book TitleAlankarsarvasva
Original Sutra AuthorN/A
AuthorGirijaprasad Dvivedi
PublisherPandurang Javaji
Publication Year1939
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy