________________ अलंकारसर्वस्वम् / 177 - यदा पूर्व पूर्व क्रमेणोत्तरमुत्तरं प्रति हेतुत्वं भजते तदा कारणमालाख्योऽयमलंकारः / यथा'जितेन्द्रियत्वं विनयस्य कारणं गुणप्रकर्षों विनयादवाप्यते / गुणप्रकर्षेण जनोऽनुरज्यते जनानुरागप्रभवा हि संपदः // ' कार्यकारणक्रम एवात्र चारुत्वहेतुः / यथापूर्व परस्य विशेषणतया स्थापनापोहने एकावली। , लक्षणप्रणयनप्रसङ्गः / अथोपमादीनामपि साधादावैवान्तरोऽस्ति विशेष इति चेत् / तर्हि कारणमालादीनामपि शृङ्खलाबन्धोपचित्रितत्वेऽपि वक्ष्यमाणनीत्या कार्यकारणविशेषणविशेष्यभावाद्यात्मास्त्येवावान्तरोऽपि विच्छित्तिविशेषः येनोपमादिवत्पृथगेवैषामलंकारत्वं युक्तम् / एवं हि शृङ्खलायामवान्तरविच्छित्तिविशेषसंभवेऽप्यन्यालंकारोपसंख्यानं प्रसज्यत इति चेत्, न / यद्यस्ति विच्छित्त्यन्तरं तदस्त्वलंकारान्तरोपसंख्यानं, को दोषः / प्रत्युताभासमानस्य विशेषस्यापह्नवो न वाच्यः / तद्यथास्थित एवालंकारभेद आश्रयणीयः। तस्मादुत्तरोत्तरस्य पूर्वपूर्वानुबन्धित्वे विपर्यये वा शृङ्खलेति न वाच्यम् / तत्र तावत्कारणमालामाह-पूर्वेत्यादि / कारणमालाख्योऽयमिति मालान्यायेन बहूनां कारणमालानां योगपद्येनावस्थानात् / अत एवाह कार्यकारणक्रम एवेति / न पुनः केवलमेव यसलात्वमित्यर्थः / अत एव कारणमालेल्यस्या अन्वर्थमभिधानम् / एवमन्येभ्यः खलाबन्धोपचित्रितेभ्योऽलंकारेभ्योऽस्या विषयविभागः / न हि तेषु कार्यकारणक्रम एव चारुत्वहेतुः। विशेषणविशेष्यभावादेवान्तरस्य विच्छित्तिविशेषस्य संभवात् / क्वचिद्विपर्ययेणापि भवति / यथा-'माणो गुणेहि जाअइ गुणा वि जाअंते सुअणसेवाइ / विमलेण सुअअप्पसरेण सुअणवइ उट्टाणं // ' अत्र हि पूर्वस्योत्तरोत्तरं कारणतयोपनिबद्धम् / एवमुत्तरत्रापि विपर्ययोऽभ्यूह्यः // यथापूर्वमि - 1. 'परस्परविशेषणतया' ख. 2. 'अप्यन्तरोऽस्ति' ख. 3. 'पूर्वानुबन्धित्वम्' ख. 4. 'विपर्ययो वा' ख. 5. 'मानो गुणेन जायते गुणा अपि जायन्ते सुजनसेवायाः' इति पूर्वार्धस्य च्छाया. 6. उत्तरार्ध क. पुस्तके नास्ति. . 12 अ० स०