________________ अलंकारसर्वस्वम् / दिभिः सह त्रयः / क्रियायाः क्रियाद्रव्याभ्यां सह द्वौ मेदौ / द्रव्यस्य द्रव्येण सहैकः / तदेवं दश विरोधमेदाः / तत्र दिमात्रेणोदाहरणं यथा'परिच्छेदातीतः सकलवचनानामविषयः पुनर्जन्मन्यस्मिन्ननुभवपथं यो न गतवान् / विवेकप्रध्वंसादुपचितमहामोहगहनो विकारः कोऽप्यन्तर्जडयति च तापं च कुरुते // ' अत्र जडीकरणतापकरणयोः क्रिययोर्विरोधो वस्तुसौन्दर्येणाप्राप्तिपर्यवसानेन परिह्रियते / तथा 'अयं वारामेको निलय इति रत्नाकर इति श्रितोऽस्माभिस्तृष्णातरलितमनोभिर्जलनिधिः / क एवं जानीते निजकरपुटीकोटरगतं क्षणादेनं ताम्यत्तिमिमकरमापास्यति मुनिः // ' अत्र जलनिधिः पीत इति द्रव्यक्रिययोर्विरोधो मुनिगतेन महाप्रभावत्वेन समाधीयते / एवमन्यदपि ज्ञेयम् / पर्यवसाने / तेनामुखावगतो विरोधः पर्यवसाने न तथा प्ररोहमेतीति भावः। एतचं श्लेष एव वितत्य प्रतिपादितमितीह न पुनरायस्तम् / एवं च सत्यपि समाधाने दोषाभावमात्रमेवास्य स्वरूपं नाशङ्कनीयम् / अलंकारत्वपर्यवसायिनो विच्छित्तिविशेषस्यापि संभवात् जातेर्गुणेन सह विरोधे उक्ते 'विरोधोऽन्योन्यबाधनम्' इति दृशा तेनैव गुणस्यापि जात्या सह विरोधः सिद्धः / अत एव गुणस्य जातिवर्ज त्रयोभेदाः / एवमन्यत्रापिज्ञेयम् / दिङ्मात्रेणेति। अनेनैषां लक्ष्य तथा वैचित्र्याभावादनवक्तृप्तिर्ध्वनिता / अत एवास्माभिरप्येते नोदाहृताः / अन्यदिति / 1. 'प्ररोहतीति' ख.२. 'विच्छित्त्यविशेषस्यापि' क. 3. 'एतन्नोदाहृतम्' क.