SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ अलंकारसर्वस्वम् / 153 'गच्छ गच्छसि चेत्कान्त पन्थानः सन्तु ते शिवाः / . ममापि जन्म तत्रैव भूयाद्यत्र गतो भवान् // ' अत्र कयाचित्कान्तस्य प्रस्थानमात्मनोऽनिष्टमप्यनिराकरणमुखेन विधीयते / न चास्य विधियुक्तः / अनिष्टत्वात् / सोऽयं प्रस्खलद्रूपत्वेन निषेधमागूरयति / फलं चात्रानिष्टस्य प्रस्थानस्यासंविज्ञानपदनिबन्धनमत्यन्तपरिहार्यत्वप्रतिपादनम् / इदंच ममापि जन्म तत्रैवेत्याशीःप्रतिपादनेनानिष्टपर्यवसायिना व्यञ्जितम् / यथा वा'नो किंचित्कथनीयमस्ति सुभग प्रौढाः परं त्वादृशाः पन्थानः कुशला भवन्तु भवतः को मादृशामाग्रहः / किं त्वेतत्कथयामि संततरतक्लान्तिच्छिदस्तास्त्वया स्मर्तव्याः शिशिराः सहंसगतयो गोदावरीवीचयः // ' अत्रानभिप्रेतमपि कान्तप्रस्थानं यदा प्रमुख एवाभ्युपगम्यमानं युक्कं नापेक्षत्वम् / इह हि प्रधानेन व्यपदेशा भवन्ति' इति न्यायाद्यदेव यत्र प्रधानतया विवक्ष्यते तदेव तत्र व्यपदेशनिमित्तम् / न तु प्रज्ञातिशयवतां 'प्राज्ञा वस्तुनि युध्यन्ति न तु सामयिके ध्वनौ' इति नीत्या नाम्नि विवादो युक्तः / तस्मात् 'आक्षिप्यतेऽत्र विधिना न यतो निषेधः स्वार्थ विधावपि न पर्यनुयोगबुद्धिः / तस्मादनिष्टविधिरेव विलक्षणत्वान्नाक्षेपमध्यपतितोऽपि तु भिन्न एव // ' इत्यादि न वाच्यम् / निराकरणमुखेनेति / प्रवृत्तक्रियत्वात्कान्तस्यानुमोदनद्वारेणेत्यर्थः / प्रस्खलद्रूपत्वेनेति खार्थबाधात् / आगूरयतीति खात्मसमर्पणेन / ननु विधिमुखेनास्य किमागूरणं खयं निषेध एव क्रियतामित्याशङ्कयाह-फलमित्यादि / एतच्चेति विधेर्निषेधागूरकत्वम् / यथा वेत्यनेनास्य लक्ष्ये प्राचुर्य दर्शितम् / प्रमुख एवेति / न पुनः पर्यवसान इत्यर्थः / एतदेवोपसंहरति 1. 'प्रलुठद्रूप' क. 2. 'निर्बन्ध' क. 3. 'शिथिलाः' ख. 4. 'यस्य मुखे एव' ख. 5. 'च प्रतिज्ञाशय' ख. 6. 'अनुकरण' ख. 7. 'प्रलठद्रूपत्वेनेति' क.
SR No.004394
Book TitleAlankarsarvasva
Original Sutra AuthorN/A
AuthorGirijaprasad Dvivedi
PublisherPandurang Javaji
Publication Year1939
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy