SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ अलंकारसर्वस्वम् / पर्यवस्यति तत्रासत्यत्वाद्याजरूपा स्तुतिरित्यनुगमेन तावदेका व्याजस्तुतिः / यत्रापि निन्दाशब्देन प्रतिपाद्यमाना पूर्ववहाधितरूपा स्तुतिः पर्यवसिता भवति सा द्वितीया व्याजस्तुतिः / व्याजेन निन्दामुखेन स्तुतिरिति कृत्वा / स्तुतिनिन्दारूपत्वस्य विच्छित्तिविशेषस्य भावादप्रस्तुतप्रशंसातो भेदः / क्रमेण यथा'हे हेलाजितबोधिसत्व वचसां किं विस्तरैस्तोयधे / नास्ति त्वत्सदृशः परः परहिताधाने गृहीतव्रतः। ... तृष्यत्पान्थजनोपकारघटनावैमुख्यलब्धायशो भारप्रोद्वहने करोषि कृपया साहायकं यन्मरोः॥ अत्र विपरीतलक्षणया वाच्यवैपरीत्यप्रतीतिः। 'इन्दोर्लक्ष्म त्रिपुरजयिनः कण्ठपीठी मुरारि.. दिङ्गागानां मदजलमषीभाञ्जि गण्डस्थलानि / अद्याप्युव-वलयतिलक श्यामलिग्नानुलिप्तान्युद्भासन्ते वद धवलितं किं यशोभिस्त्वदीयैः // णवर णिब्बूढो / इण्हिं अण्णं हिअए अण्णं वाआइ लोअस्स // ' इत्यादौ विश्रान्ते वाक्यार्थे वक्तृवाच्यौचित्यपर्यालोचनाबलान्निन्दायाः प्रतीतिरिति ध्वनिविषय, त्वमेव युक्तम् / पूर्ववदिति प्रमाणान्तरात् / एका द्वितीया चेत्यभिदधता द्वे एवात्र व्याजस्तुती न पुनरेकैव द्विविधा व्याजस्तुतिरिति सूचितम् / प्रकार प्रकारिभावो हि सामान्यलक्षणासद्भावे न भवति / असंभवत्तत्सामान्यस्य तद्विशेषत्वाभावात् / शब्दनिबन्धनं तु सामान्यमाश्रित्य द्वयोरत्राभिधानम् / एवं स्तुतिनिन्दाभ्यामप्रस्तुताभ्यां निन्दास्तुत्योः प्रस्तुतयोर्गम्यत्वमित्यत्र सिद्धम् / यद्येवं तत्किमियमप्रस्तुतप्रशंसैव न भवतीत्याशङ्कयाह-स्तुतीत्यादि / तत्र हि सामान्यविशेषादीनां गम्यत्वमुक्तम् / विपरीतलक्षणयेति / सनिमि
SR No.004394
Book TitleAlankarsarvasva
Original Sutra AuthorN/A
AuthorGirijaprasad Dvivedi
PublisherPandurang Javaji
Publication Year1939
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy