________________ अलंकारसर्वस्वम् / पीतं तस्य मयाद्य पाण्डववधूकेशाम्बराकर्षिणः . कोष्णं जीवत एव तीक्ष्णकरजक्षुण्णादसृग्वक्षसः॥ अत्र राज्ञ इत्यादौ सोत्प्राशपरत्वं प्रसन्नगम्भीरपदत्वम् / एवम् 'अ. गराज सेनापते राजवल्लभ द्रोणोपहासिन्कर्ण, सांप्रतं रक्षेनं भीमाहुःशासनम्' इत्यादौ ज्ञेयम् / विशेष्यस्यापि साम्ये द्वयोर्वोपादाने श्लेषः / केवलविशेषणसाम्यं समासोक्तावुक्तम् / विशेष्ययुक्तविशेषणसाम्यं त्वधिकृत्येदमुच्यते / तत्र द्वयोः प्राकरणिकयोरपाकरणिकयोः प्राकर त्वमित्युपहासपरत्वम् / एवमन्येषामपि स्वयमेवैतदवगन्तव्यम् / आदिशब्देन 'यस्यैकस्यैव दोष्णां जयति दशशती सान्वयो द्वारि रुद्रः कारागारे सुराणां पतिरपि च शची चामरव्यग्रहस्ता / कन्या तस्येयमेका रजनिचरपतेरेष शुद्धान्तमेको बालो निःशङ्कमस्याः प्रविशति च नमस्तेजसे वैष्णवाय // ' इत्यादावपि विशेषणानां प्रसन्नगम्भीरत्वं ज्ञेयम् / विशेष्यस्यापीत्यादि / इदमिति श्लेषलक्षणम् / आद्यमिति / प्राकरणिकगतत्वेनाप्राकरणिकगतत्वेन च / एवकारश्चात्र भिन्नक्रमो द्रष्टव्यः / तेन प्रकारद्वयमेवेति व्याख्येयम् / अतश्च तृतीयः प्रकारो विशेषणसाम्य एव भवतीति व्यवच्छेदफलम् / अन्यथा हि प्रकारद्वयस्यास्य विशेष्यसाम्याभावेऽपि दर्शनादव्याप्तिः स्यात् / तद्यथा 'संचारपूतानि दिगन्तराणि इत्यादि / अत्र प्रभाधेन्वोर्द्वयोः प्रकृतयोविशेष्ययोः साम्याभावः / 'आबाहुद्गतमण्डलाग्ररुचयः संनद्धवक्षःस्थलाः सोष्माणो व्रणिनो विपक्षहृदयप्रोन्माथिनः कर्कशाः / उत्सृष्टाम्बरदृष्टविग्रहभरा यस्य स्मराग्रेसरा योधा वारवधूस्तनाश्च न दधुः क्षोभं स वोऽव्याजिनः // ' अत्र स्तनयोधयोरप्रकृतयोर्विशेष्ययोः साम्याभावः / विशेषणसाम्य एवेति न पुनर्विशेष्यसाम्ये / एतदपि विशेष्यसाम्ये किं न भवती. त्याशङ्कयाह-विशेष्यसाम्ये त्वित्यादि / यथा-'लंकालआण पुत्तअ वसं 1. 'परम्' क. 2. 'वक्तव्यः' क. 3. 'विशेष' ख. 4. 'देववधू' ख.