SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ 422 अभिधर्मदीपे [577. अनागम्याश्रये न्याम तद्भागीयोद्भवादिषु // यद्यनागम्यं नि:श्रितो नियाममवक्रामति, तस्यानागम्यमेव भाव्यते न तु प्रथमं ध्यानं किञ्चिदपि भाव्यते / यदा खल्वप्यनागम्यानिर्वेधभागीयान्युत्पादयति ....... ... [भाव] नया भाव्यते न तु प्रथमं ध्यानं दर्शनमार्गसादृश्यादित्याविष्कृतमेतदिति // [577] द्वितीयादिष्वनेनैव विधिनाभ्युह्य युक्तितः।। ___ अभिधर्मनयज्ञाने ज्ञेयाऽनागतभावना // द्वितीयादिषु खल्वधिध्यानेष्वनयैव प्रथमध्यानानागताभावनानीत्या तत्र युक्तिमनुसरता यथातन्त्रम ...." / ध्याणं (नं) कस्य किमालम्बनमित्यत इदमनुक्रम्यते। [578] सास्वादः स्वभवालम्बः शुभं ध्यानं समन्तदक / प्रारूप्याः कुशला मौला नाधोलोकावलम्बिनः // ' आस्वादनासंप्रयुक्तः स्वभूमिकं [भवमालम्बते] सास्रवं वस्त्वित्यर्थः / नाधरांभूमिमालम्बते वीतरागत्वान्नोत्तरां तृष्णा[VIII. B. 7. Fo1149 a]-परिच्छिन्नत्वात् / नानास्रवं कुशलत्वप्रसङ्गात् / कुशलं तु ध्यानं शुद्धकमनास्रवं वा सर्वालम्बनं यत्किञ्चिदस्ति संस्कृतमसंस्कृतं वा / मौलानां तु कुशलारूप्याणामधोभूमिकं च सास्रवं वस्तु नालम्बनम् / स्वभूम्योर्ध्वभूम्यालम्बनत्वात् / अनास्रवं [त्वालम्बनम् / सर्वा] न्वयज्ञानपक्षो न धर्मज्ञानपक्षो नाधोभूमिनिरोधः। सामन्तकानन्तर्यमार्गाणां त्वधराभूमिरालम्बनम् / / ] [एषाञ्च पु]नस्त्रिविधानां ध्यानारूप्याणाम् 1579] ध्यानारूप्यैः प्रहीयन्ते निर्मलैर्माण(न)स(सो) मलाः / अधोभूमेस्तु लभ्यन्ते सामन्तैरपि शुद्धकः // अनास्रवेनैव (ण)व ध्यानारूप्येण क्लेशाः प्रहीयन्ते न कुशलेन / कुत एव क्लिष्टेन ? वीतरागवन्नाधः प्रहीयन्ते तस्यैव तदप्रतिपक्षत्वात् , न स्वभूमी 1 Cf. सतृष्णाः स्वभवालम्बाः ध्यानं सद्विषयं शुभम् // न मौलाः कुशलारूप्याः सानवाधरगोचराः। AK. VIII. 20 cd. 21 ab. This folio is broken on the right. A part of about fifteen letters is lost in cach line. The restorations given in the square brackets are done with the help of Akb.
SR No.004384
Book TitleAbhidharmadipa with Vibhasaprabha Vrutti
Original Sutra AuthorN/A
AuthorP S Jaini
PublisherKashi Prasad Jayaswal Research Institute
Publication Year1977
Total Pages660
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy