SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ 280 अभिधर्मदीपे [ 320. किं लक्षणात्कारित्रं ततो वा द्रव्यात्, किमन्यदाहोस्विदनन्यदिति ? तत्र वयं प्रतिवद्मः . श्रूयतां सद्भ्यः छात्रासनमध्यास्य न हि सर्वज्ञप्रवचनगाम्भीर्यं सदेवकेनापि लोकेन शक्यं तर्कमात्रेणावबोद्धम्' / यस्मात्सोम्य दुर्बोधा खलु धर्मता। तथापि तु श्रूयताम् // च / तेनासंस्कृतत्वान्नित्यत्वमस्तीति प्राप्तम् / अतो न वक्तव्यं यदा कारित्रं न करोति धर्मस्तदाऽनागत इति / नान्यत् अतो न भवत्येष दोषः / एवं तहि स एव अध्वायोगस्तथा सत: / Akb. v. 27 ab. 1f. "Vaibhashilk (does not feel discountenanced by this series of arguments,and says:) We Vaibhashikas, nevertheless, maintain that the past and the future certainly do exist. But (regarding the everlasting essence of the elements of existence, we confess) that this is something we do not succeed in explaining, their essence is deep (it is trascendental), since its existence cannot be established by rational methods..." The Central Conception of Buddhism, pp. 90-91. (See Ibid note 1.) 2 अजातनष्टता केन .."अथासत्यतीतानागते कथं तेन तस्मिन् वा संयुक्तो भवति ? तज्जतद्धत्वनुशयभावात् क्लेशेन तदालम्बने क्लेशानुशय भावाद्वस्तुनि संयुक्तो भवति / प्रस्त्येव त्वतीतानागतमिति वैभाषिकाः / यन्न नेतुं शक्यते तत्रात्मकात्मनैव वेदितव्यम् / गम्भीरा खलु धर्मता // नावश्यं तसाध्या भवतीति / अस्ति पर्यायो यदुत्पद्यते तन्निरुध्यते / रूपमुत्पद्यते रूपं निरुध्यते / अस्ति पर्यायोऽन्यदुत्पद्यतेऽन्यनिरुध्यते / अनागतमुत्पद्यते वर्तमानं निरुध्यते / अध्वाऽप्युत्पद्यते। उत्पद्यमानस्याध्वसंगृहीतत्वात् / अध्वनोऽप्युत्पद्यते। अनेकक्षणिकत्वादनागतस्याध्वनः। Akb. v. 27 cd. -धर्मता इति / धर्माणां स्वभावः / अतीतादिकाध्वव्यवस्थाने सति तत्संव्यवहारव्युत्पादनार्थमाह / अस्ति पर्याय इत्यादि / अस्ति वचनक्रमः / रूपमुत्पद्यते रूपं निरुध्यते द्रव्यानन्यत्वात्। अन्यदुत्पद्यतेऽन्यग्निरुध्यते। अनागतमुत्पद्यतेऽन्यदुत्पादाभिमुखत्वात् / वर्तमानं निरुध्यतेऽन्यग्निरोधाभिमुखत्वात् / अध्वाऽप्युत्पद्यते, उत्पद्यमानस्य धर्मस्याध्वसंगहीतस्वात्, अध्वस्वभावादित्यर्थः / 'त एवाध्वा कथावस्तु' इति लक्षणात् / अध्वनोऽप्युपादानरूपादुत्पद्यते धर्मः। कस्मादित्याह / अनेकक्षणिकत्वादनागतस्याध्वन इति / यस्मादनेकेषा क्षणानामनागतानां राशिरूपाणां कश्चिदेव क्षण उत्पद्यते / अतोऽध्वनोऽप्युत्पाद्यत इत्युच्यते / Saks. pp. 477-8.
SR No.004384
Book TitleAbhidharmadipa with Vibhasaprabha Vrutti
Original Sutra AuthorN/A
AuthorP S Jaini
PublisherKashi Prasad Jayaswal Research Institute
Publication Year1977
Total Pages660
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy