SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ 123.] द्वितीयोऽध्यायः। 83 "वितयं विचार्य वाचं भाषते नाविताविचार्य"इति / ' तत्र य औदार्यास्ते वितर्काः। ये सूक्ष्मास्ते विचाराः / यदि चैकत्र चित्तेऽन्यो धर्म औदारिकोऽन्यः सूक्ष्मः कोऽत्र विरोध इति ? न विरोधो यदि जातिभेदः स्यात् / एकस्यान्तु जाती मृद्वधिमात्रता युगपन्न संभवति / जातिभेदोऽप्यस्ति स तर्हि वक्तव्यः / दुर्वचो ह्यसौ। अतो मृद्वधिमात्रतया व्यज्यते। नैवं व्यक्तो भवति / प्रत्येकं जातीनां मृद्वधिमात्रत्वात् / तदिदमन्धविलासिनीकटाक्षगुणोत्कीर्तण (न)कल्पं चोद्यमारभ्यते / यदनवबुध्य तल्लक्षणं चोद्यविधिः मिथ्या प्रतार्य (य)ते। तयोहि यथोक्तलक्षणयोरेकस्मिश्चेतसि सद्भावमात्रं प्रतिज्ञायते न युगपद् वृत्त्यु द्रेकतालाभः / / यथा विद्यविद्ययोः संशयनिर्णययोश्चेति तूष्णीमास्व / मा विद्वद्भिरवगीहसः स्वमात्मानम् / सा पुनदृष्टिस्त्रिप्रकारा मिथ्यादृष्ट्याद्या वेदितव्याः / क्रोधाद्यस्त्वधिकं वदेत् // 1. Cf. पुब्बे खो, आवुसो विसाख, वितक्त्वा विचारेत्वा वाचं भिन्दति, तस्मा वितक्कविचारा वचीसंखारो। M. statta 44. 2. The Sthavirava din takes this standpoint as is evident from the following :-सन्ते पि च नेसं कत्थचि आवियोगे ओळारिकठेन च पुब्बंगमछेन च घण्टाभिघातो विय अभिनिरोपनठेन चेतसो पठमाभिनिपातो वितक्को। सुखुमठेन अनुमज्जनसभावठेन घण्टानुरवो विय अनुप्पबन्धो विचारो। विप्फारवा चेत्थ वितक्को, पठमुप्पत्तिकाले परिप्फन्दभूतो चित्तस्स / आकासे उप्पतितुकामस्स पक्खिनो पक्खविखेपो विय / “सन्तवृत्ति विचारो नातिपरिप्फन्दनभावो चित्तस्स, आकासे उप्पतितस्स पक्खिनो पक्खप्पसारणं विय तथा मण्डलं करोन्तस्स मज्झे सन्निरुज्झित्वा ठितकण्टको विय अभिनिरोपनो वितकको, बहिपरिन्भमनकण्टको विय अनुमज्जनो विचारो Dhs A. III. 200 and 201. 3. This view agrees quite well with the view of Samghabhadra as quoted and criticised by Yasomitra : अत्र संघभद्र आचार्य आह -'एकत्रच चित्ते पौवारिकसूक्ष्मते भवतः / न च विरोषः प्रभावकालान्यत्वात् / यदा हि चित्तचैत्तकलापे वितर्क उद्भूतवृत्तिर्भवति तदा चित्तमौदारिकं भवति / यदा विचारस्तदा सूक्ष्मम् / रागमोहचरितव्यपदेशवत् / रागमोहयोगपोऽपि हि तयोरन्यतरोभूतवृत्तियोगाद् रागचरितो मोहचरित इति वा व्यपदिश्यते / तद्वदिहापि द्रष्टव्यम्' इति / ___ अत्र वयं ब्रूमः। भवति कस्मिश्चित्कलापे कस्यचिद्धर्मस्योद्भूतवृत्तित्वम् / किंत्वनयोर्न लक्षणं विवेचितमिति न किञ्चिदेतत् / ननु च चित्तौदारिकतासूक्ष्मतालक्षणो वितकविचारावुक्तो। सत्यमुक्तो। प्रत्येकं तु जातीनामौदारिकसूक्ष्मते इति तावौदारिकसूक्ष्मतालक्षणी भवितुमर्हतो यथोक्तमिति नैतदस्मानाराधयति / Saks. p. 140.
SR No.004384
Book TitleAbhidharmadipa with Vibhasaprabha Vrutti
Original Sutra AuthorN/A
AuthorP S Jaini
PublisherKashi Prasad Jayaswal Research Institute
Publication Year1977
Total Pages660
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy