SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ [74 ] सटीक श्रावकप्रज्ञप्त्याख्यप्रकरणं / ___ क्वचिज्जीवो बली स्ववीर्यतः कलिष्टकर्माभिभवेन सम्य. ग्दर्शनाद्यवाप्तया अनन्तानां सिद्धत्वश्रवणात् , क्वचित्कर्माणि भवन्ति बलवन्ति यस्मादेवं वीर्यवन्तोऽपि ततोऽनन्तगुणाः कर्मानुभावत: संसार एव तिष्ठन्ति प्राणिन इति, तथा चाह, यस्मादनन्ताः सिद्धास्तिष्ठन्ति भवेऽप्यनन्ता इति एतदेव प्रकटयति / अच्च तदारुणाई कम्माइं खवित्तु जीवविरिएणं / सिद्धिमणंता सत्ता पत्ता जिणवयणजणिएणं 102 [ अत्यन्तदारुणानि कर्माणि क्षपयित्वा जीववीर्येण / सिद्धिमनन्ताः सत्वाः प्राप्ता जिनवचनजनितेन // 102 // ] अत्यन्तदारुणानि कलिष्टविपाकानि कर्माणि ज्ञानावरणादीनि क्षपयित्वा जीववीर्येण प्रलयं नीत्वा शुभात्मपरिणामेन सिद्धिं मुक्ति अनन्ताः सन्चाःप्राप्ताःजिनवचनजनितेन जीववीर्येण, इह वैराग्यहेतुः सर्वमेव वचनं जिनवचनमुच्यत इति / तत्तो णंतगुणा खल कम्मेण विणिज्जिआ इह अडंति। सारीरमाणसाणं दुक्खाणं पारमलहंता // 103 // [ ततो ऽनन्तगुणाः खलु कर्मणा विनिर्जिता इह अटन्ति / शारीरमानसाना दुःखानों पारमलभमानाः // 103 // ] ततः सिद्धिमुपगतेभ्यः सकाशादनन्तगुणा एव कर्मणा
SR No.004383
Book TitleShravak Pragnpti
Original Sutra AuthorN/A
AuthorRajendravijay
PublisherSanskar Sahitya Sadan
Publication Year1972
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy