SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [21] प्रसिद्धे दातरि तस्यापि लभ्यस्य भावे याञ्चाकुशलोऽपि न लभते / भोगान्तरायं तु यदुदयात्सति विभवे अन्तरेण विरतिपरिणामं न भुक्ते भोगान् / एवमुपभोगान्तरायमपि / नवरं भोगोपभोगयोरेवं विशेषः सद्भुज्यत इति भोगः आहारमाल्यादिः पुनः पुनरुपभुज्यत इत्युपभोगः भवनवलयादिः। उक्तं च सइ भुज्जइत्ति भोगो सो उण आहारफुल्लमाईसु / उपभोगो उ पुणो पुण उवभुज्जइ भुवणवलयाई // वीर्यान्तरायं तु यदुदयान्निरुजो वयस्थश्वाल्पवीर्यों भवति / चित्रं पुद्गलरूपं विज्ञेयं सर्वमेवेदं चित्रमनेकरूपं चित्रफलहेतुत्वात् , पुद्गलरूपं परमाण्वात्मकं न वासनादिरूपममूर्तमिति, विज्ञेयं ज्ञातव्यं भिन्नालम्बनं पुनः क्रियाभिधानमदुष्टमेव, सर्वेदं ज्ञानावरणादि कर्मेति // .. एयस्स एगपरिणामसंचियस्स उ ठिई समक्खाया। उक्कोसेयरभेया तमहं वुच्छं समासेणं // 27 // [ एतस्यैकपरिणामसंचितस्य तु स्थितिः समाख्याता / उत्कृष्टेतरभेदात्तामहं वक्ष्ये समासेन // 27 // ] . ' एतस्य चानन्तरोदितस्य कर्मणः एकपरिणामसंचितस्य तुशब्दस्य विशेषणार्थत्वात्प्रायः कलिष्टेकपरिणामोपात्तस्येत्यर्थः स्थितिः समाख्याता सांसारिकाशुभफलदातृत्वेनावस्थानं उक्त
SR No.004383
Book TitleShravak Pragnpti
Original Sutra AuthorN/A
AuthorRajendravijay
PublisherSanskar Sahitya Sadan
Publication Year1972
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy