SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [ 117 ] द्वितीयपक्षमधिकृत्याहएगतेण सरीरादन्नत्ते तस्स तकओ बंधो। न घडइ न य सो कत्ता देहादत्थंतरभूओ।१८६। [ एकान्तेन शरीरादन्यत्वे तस्य तत्कृतः बन्धः / न घटते न चासौ कर्ता देहादर्थान्तरभूतः // 18 // ] एकान्तेन सर्वथा शरीरादन्यत्वे अभ्युपगम्यमाने तस्य जीवस्य किं तत्कृतो बन्धः जीवस्य शरीरनिवर्तितो बन्धो न घटते न हि स्वत एव गिरिशिखरपतितपाषाणतो जीवघाते देवदत्तस्य बन्ध इति / स्यादर्थान्तरस्यापि तत्करणकर्तृत्वेन बंध इत्येतदाशंक्याह-न चासौ कर्ता देहादर्थान्तरभूतः निःक्रियत्वान्मुक्तादिभिरतिप्रसङ्गादिति / स्यादेतत्प्रकृतिः करोति पुरुष उपभुक्त इत्येतदाशंक्याहअन्नकयफलुवभोगे अइप्पसंगो अचेयणं कह य / कुणइ तकं तदभावे भुंजइ य कहं अमुत्तो ति॥ [अन्यकृतफलोपभोगेऽतिप्रसंगः अचेतनं कथं च / करोति तकं तदभावे भुंक्ते च कथं अमूर्त इति // 187 // ] अन्यकृतफलोपभोगे प्रकृत्यादिनिवर्तितफलानुभवेऽभ्युपगम्यमानेऽतिप्रसङ्गः भेदाविशेषेऽन्यकृतस्यान्यानुभवप्रसङ्गात् वास्तवसंबंधाभावात् अचेतनं च कथं करोति तत्प्रधानं किंचि
SR No.004383
Book TitleShravak Pragnpti
Original Sutra AuthorN/A
AuthorRajendravijay
PublisherSanskar Sahitya Sadan
Publication Year1972
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy