SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ [102] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [निरुपमसौख्यो मोक्षः न च सति पुण्ये तक इति कथं न गुणः / पापोदयसंदिग्ध इतरस्मिन् तु निश्चयः केन // 154 // ] निरुपमसौख्यो मोक्षः सकलाबाधानिवृत्तेरुभयसिद्धत्वान्न च सति पुण्ये तकोऽसौ पुण्यक्षयनिमित्तत्वात्तस्येति एवं कथं न गुणः पुण्योपक्रमकरणे गुण एव / अथैवं मन्यसे पापोदयसंदिग्धोऽसौ न ह्यत्र निश्चय उपक्रमेण पुण्ये क्षपिते तस्य मोक्ष एव भविष्यति न तु पापोदय इति, एतदाशङ्कथाह इतरस्मिन् तु दुःखितपापक्षपणे निश्चयः केन यदुत तस्यैवमेवार्थों न पुनरनर्थ इति / एतदेव भावयतिदुहिओ विनरगगामी वहिओ सो अवहिओ बहू अन्ने वहिऊण न गच्छिज्जा कयाइ ता कह न संदेहो।१५५ [ दुःखितोऽपि नरकगामी हतः सोऽहतो बहूनन्यान् / हत्वा न गच्छेत् कदाचित् तस्मात्कथं न संदेहः // 155 // ] दुःखितोऽपि मत्स्यबन्धादिर्नरकगामी हतः सन् कदाचित्स्यादिति योगः नरकसंवर्तनीयस्य कर्मणः आसकलनसंभवात् वेद्यमानोपक्रमे च तदुदयप्रसङ्गात् स एवाहतोऽव्यापादित: सन् बहनन्यान् दुःखितान् हत्वा त्वन्मतेनैव पापक्षयान गच्छेत् कदाचित् यस्मादेवं तस्मात्कथं न संदेहः दुःखितपापक्षपणेऽपि संदेह एवेति // अधुना प्रागुपन्यस्तं नारकन्यायमधिकृत्याह
SR No.004383
Book TitleShravak Pragnpti
Original Sutra AuthorN/A
AuthorRajendravijay
PublisherSanskar Sahitya Sadan
Publication Year1972
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy