________________ श्रीवीतरागस्तुतिः संसाराम्बुनिधि तरितुमनिशं मूर्तिढा नौरियं, मूर्तिनेत्रपथं गता जिनपतेः किं किं न कर्तु क्षमा॥२६॥ धन्या दृष्टिरियं यया विमलया दृष्टो भवान् प्रत्यहं, धन्यासौ रसना यया स्तुतिपथं नीतो जगद्वत्सलः / धन्यं कर्णयुगं वचोमृतरसः पीतो मुदा येन ते, धन्यं हृत् सततं च येन विशदस्त्वन्नाममन्त्रो धृतः // 27 // नेत्रे साम्यसुधारसैकसुभगे आस्यं प्रसन्नं सदा, यत्ते चाहितहेलिसंहतिलसत्संसर्गशून्यौ करौ / अङ्कश्च प्रतिवन्धवन्धुरवधूसम्बन्धवन्ध्योधिकं, तद्देवो भूबने त्वमेव भवसि श्रीवीतरागो ध्रुवम् // 28 // नेत्रानन्दकरी भवोदधितरी श्रेयस्तरोमञ्जरी, श्रीमद्धर्ममहानरेन्द्रनगरी व्यापल्लताधूमरी। हर्षोत्कर्षशुभप्रभावलहरी रागद्विषां जित्वरी, मूर्तिः श्रीजिनपुङ्गवस्य भवतु श्रेयस्करी देहिनाम् // 29 // अद्याऽभवत् सफलता नयनद्वयस्य, देव ! त्वदीयचरणाम्बुजवीक्षणेन / अद्य त्रिलोकतिलक ! प्रतिभासते मे, संसारवारिधिरयं चुलुकप्रमाणः // 30 // न चक्रिशक्रादिपदं समीहे, त्वदाज्ञया हीनमहं निरीह ! / रकत्वमप्यस्तु भवान्तरेपि, स्वामिस्त्वदाज्ञावशवर्तिनो मे // 31 //