SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ 48 अभिधर्मसमुच्चयभाष्यम् [I (4)] 552 (1). [Ch. 718 C, As. P. 35] समन्वागमो लक्षणतः पूर्ववत्तद्यथा कुशलादीनां धर्माणामाचयापचये प्राप्तिः प्रतिलम्भः समन्वागम इति प्रज्ञप्तिः / बीजसमन्वागम इति कामधातौ जातौ भूतस्त्रधातुकः क्लेशोपक्लेशः समन्वागत इत्यवीतरागं पृथग्जनमधिकृत्यैतद्वेदितव्यम्। वीतरागस्तु तत्रोवं वा जातो यतो भूमेर्वीतरागस्तद्भूमिकैरसमन्वागतः समन्वागतश्च, प्रतिपक्षेणोपहतत्वादसमुद्धातितत्वाच्चानुशयतो यथाक्रमम् / उपपत्तिप्रा तिलम्भिकैश्च कुशल रिति यत्र जातस्तद्भूमिकैरेव / धातुकप्रतिपक्षलाभीति लोकोत्तरमार्गलाभी। यस्य यस्य प्रकारस्य प्रतिपक्ष उत्पन्न इति भाव[Ms. 44A]नाप्रहातव्यस्याधिमात्रादेः क्लेशस्य / तस्य तस्य बीजसमन्वागमेनासमन्वागतोऽनुशयतः समुद्धातितत्वात् / (ii) वशितासमन्वागमः [T. 44 B] प्रायोगिकानां कुशलानामिति श्रुतमयादीनां सत्यपि बीजे तदभ्यासकृतां तज्जन्मिकी * बीजपुष्टिमन्तरेण [Ch. 719A] संमुखीकर्तुमशक्यत्वात् / तदेकत्यानां चाव्याकृतानां शल्पस्थानिकनैर्माणिकचित्तप्रभृतीनाम् / / 552 (2). मोक्षहेतुवैकल्यादात्यन्तिक एषां हेत्वसमन्वागम इति / "मोक्षप्राप्तिहेत्वसमन्वागम इत्यर्थः / कः पुनर्मोक्षप्राप्तिहेतुः / यस्यैवं तथतायां क्लेशदौष्ठल्यं संनिविष्टं भवति तत्सति प्रतिपक्षानुकलप्रत्ययलाभे शक्यते समुद्धातयितुम्, स भव्यतार्थेन हेतुरित्युच्यते / विपर्ययाद्धेतुवैकल्यं वेदितव्यम् / / 1. 2. 3, 4. Ms. & T. have no chapter division. Ch, IV. of मूलवस्तु. T. omits प्रज्ञप्ति. Ms. प्र. Cf. As (G). P. 30. Ms. adds द. T. adds लौकिकधर्माणाम Ch. adds धर्माणाम. T. adds लोकोत्तर, according to T. स भव्य° can be read as स सभव्य 6. 7.
SR No.004378
Book TitleAbhi Dharm Samucchaya Bhasyam
Original Sutra AuthorN/A
AuthorNathmal Tatia
PublisherK P Jayswal Research Institute
Publication Year1976
Total Pages188
LanguageHindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy