SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ 130 अभिधर्मसमुच्चयभाष्यम् - [T. 119 B] रायायेति / (iv) यो वा पुनर्मे श्रा[Ms. 121 A]वकाणां निर्याणाय मार्ग आख्यात आर्यो नैर्याणिको नैधिकः स वत न सम्यनिर्याति तत्करस्य सम्यग्दुः[ख]क्षयाय दुःखस्यान्तक्रियायै इत्यत्र मां कश्चित् श्रमणो वा ब्राह्मणो वा यावत्तिहनादं नदामोति विस्तरेणकै कस्मिन् वक्तव्यम् / तान्येतानि वैशारद्यानि स्वार्थ परार्थं चारभ्य वेदितव्यानि। तत्र द्विविधः स्वार्थः - (i) ज्ञानविशेष: (ii) प्रहाणविशेषश्च / द्विविधः परार्थः --- (i) विपक्षधर्मविवर्जनं (ii) प्रतिपक्षधर्मनिषेवणे च। तत्राभिसंबोधिवैशारा ज्ञानात्मक स्वार्थमेवारभ्य सर्वाकारं मया सप्रभेदपर्यन्तं ज्ञेयमभिसंबुद्धमित्येतस्याः प्रतिज्ञायाः सम्यनिरनुयोज्यत्वेन सर्वस्मिन् लोके प्रतिष्ठापनसमृद्धौ यः समाधिरिति पूर्ववत् / एवं शेषाण्यपि वैशारद्यानि योजयितव्यानि / सर्वाकाराः पुनरालवाः सवासनाः क्लेशा द्रष्टव्याः / सर्वाकारान्तरायिक धर्माः सर्वे सांक्लेशिकाः विपक्षधर्मा द्रष्टव्याः / सर्वाकारो नर्याणिको मार्गः प्रयोगमार्गमारभ्य यावन्निष्ठामार्गो द्रष्टव्यः / / $ 164. त्रीण्यावेणिकानि स्मत्युपस्था[Ms. 123B] नानि / इह (i) शास्ता श्रावकाणां धर्म देशयत्यनुकम्पकः कारुT. 120A]णिकोऽर्थकामो हितैषी करुणायमानः- इदं वो भिक्षवो हिताय इदं सुखाय इदं हितसुखायेति / तस्य ते श्रावकाः शश्रषन्ते श्रोत्रमवदधत्याज्ञाचित्तमुपस्थापयन्ति प्रतिपद्यन्ते धर्मस्यानुधर्मम् / तत्र तथागतस्य न नान्दी भवति न सौमनस्यं न चेतस उत्प्लावितत्वमुपेक्षकस्तत्र तथागतो विहरति स्मृतः संप्रजानन् / इदं प्रथमावेणिकं स्मृत्युपस्थानम् / यदार्यः सेवते यदार्यः सेवमानोऽर्हति गणमनुशासितुम् / (ii) पुनरपरं शास्ता [Ch. 761B] श्रावकाणां धर्म देशयति यावदिदं हित'सुखाय / तस्य ते श्रावका न शश्रषन्ते यावन्न प्रतिपद्यन्ते धर्मस्यानुधर्मम् / तत्र तथागतस्य नाधातो भवति नाक्षान्ति प्रत्ययो न चेतसोऽनभिराद्धिरुपेक्षकस्तत्रेति विस्तरः / इदं द्वितीयम् / (iii) तृतीयेऽयं विशेष:--अस्यैके श्रावकाः शुश्रुषन्ते यावत्प्रतिपद्यन्ते धर्मस्यानुधर्ममेके न शुश्रूषन्ते यावन्न प्रतिपद्यन्ते धर्मस्यानुधर्मम् / तत्र तथागतस्य न नान्दो भवति यावच्चेतसो ना[Ms. 124A]भिराद्धिरिति / एता[नि] त्रीणि स्मृत्युप 1. 2. 3. 4. 5. 6. Ms. व. Ms. न. Ms. क. Ms. द्धो. Ms. adds न. Ms. यदादयः, Our enmendation is based on sphulartha p. 647 (line 8). T. omits f&a. Ms. ते. 7. 8.
SR No.004378
Book TitleAbhi Dharm Samucchaya Bhasyam
Original Sutra AuthorN/A
AuthorNathmal Tatia
PublisherK P Jayswal Research Institute
Publication Year1976
Total Pages188
LanguageHindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy