SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ कालपरि रागाभिलाषसंज्ञोऽत्र, नान्दीमङ्गलपाठकः / अनेकविब्बोककरः, कामनामा विदूषकः // 21 // कृष्णादिलेश्यानामानो, वर्णकाः पात्रमण्डनाः। योनिः प्रविशत्पात्राणां, नेपथ्यं व्यवधायकम् // 22 // भयादिसंज्ञा विज्ञेयाः, कंशिकास्तत्र नाटके / लोकाकाशोदरा नाम, विशाला रङ्गभूमिका // 23 // पुद्गलस्कन्धनामानः, शेषोपस्करसंचयाः। इत्थं समग्रसामग्रीयुक्ते नाटकपेटके // 24 // नानापात्रपरावृत्त्या, सर्वलोकविडम्बनाम् / अपरापररूपेण, कुर्वाणोऽसौ प्रमोदते ॥२५॥युग्मम्।। किंचात्र बहुनोक्तेन ? नास्ति तद्वस्तु किञ्चन / यदसौ मनसोऽभीष्टं, न करोति महानृपः // 26 // णतेः महा तस्य चैवंभूतस्य त्रिगण्डगलितवनहस्तिन इव सर्वत्रास्खलितप्रसरतया यथेष्टचेष्टया विचरतो वीकल्पना यथाभिरुचितकारिणः कर्मपरिणाममहानृपतेः समस्तान्तःपुरकुलतिलकभूता ऋतुलक्ष्मीणामिव शरलक्ष्मीः, शरलक्ष्मीणामिव कुमुदिनी, कुमुदिनीनामिव कमलिनी, कमलिनीनामिव कलहंसिका, कलहंसिकानामिव राजहंसिका बहीनां नियतियदृच्छाप्रभृतीनां देवीनां मध्ये निजरूपलावण्यवर्णविज्ञानविलासादिभिर्गुणै रमणीयत्वेन प्रधानतमा कालपरिणतिर्नाम महादेवी / सा च तस्य नृपतेर्जीवितमिवात्यन्तवल्लभा, आत्मीयचित्तवृत्तिरिव सर्वकार्येषु यत्कृतप्रमाणा, सुमन्त्रिसंहतिरिव स्वयमपि किञ्चित् कुर्वता तेन प्रष्टव्या, सुमित्रसन्ततिरिव विश्वासस्थानं, किं बहुना ? तदायत्तं हि तस्य सकलमधिराज्यमिति / अत एव चन्द्रिकामिव शशधरो, रतिमिव मकरध्वजो, लक्ष्मीमिव केशवः, पार्वतीमिव त्रिनयनस्तां कालपरिणतिं महादेवीं स कर्मपरिणामो महानरेश्वरो विरहकातरतया न कदाचिदेकाकिनी विरहयति, किं तर्हि ?, सर्वत्र गच्छंस्तिष्ठंश्चात्मसन्निहितां धारयति / साऽपि च दृढमनुरक्ता भर्तरि न तद्वचनं प्रतिकूलयति, परस्परानुकूलतया हि दम्पत्योः प्रेम निरन्तरं संपद्यते, नान्यथा, ततस्तथा वर्तमानयोस्तयोर्गाहें निरूढमागतं प्रेम, विच्छिन्ना तद्विचलनाशङ्का / / ततश्चासौ कालपरिणतिगुरुतया महाराजप्रसादस्य, उन्मादकारितया यौवनस्य, तुच्छतया स्त्रीहृदयस्य, णतिकृतं चञ्चलतया तत्स्वभावानां, कुतूहलतया तथाविधविडम्बनस्य सर्वत्र लब्धप्रसराऽहं प्रभवामीति मन्यमाना चित्रसंसा युक्ता सुषमदुष्पमादिभिः शरीरभूताभिः प्रियसखिभिः परिवेष्टिता समयावलिकामुहूर्तप्रहरदिनाहोरात्रपक्षमारनाटकं सर्व्वयनसंवत्सरयुगपल्योपमसागरोपमावसर्पिण्युत्सर्पिणीपुद्गलपरावर्तादिना परिकरेण विविधकार्यकरणक्षमाऽस्मि लोकेऽहमिति संजातोत्सेकाऽस्मिन्नेव कर्मपरिणाममहाराज प्रवर्तिते चित्रसंसारनाटके तस्यैव राज्ञो निकटोपविष्टा सती साहङ्कारमेवं निमन्त्रयति यदुत यान्येतानि योनिजवनिकाव्यवहितानि पात्राणि तिष्ठन्ति (तानि) मद्वचनेन निर्गच्छन्तु शीघ्र, एतानि च निर्गतानि उपगतरुदितव्यापाराणि गृह्णन्तु मातुःस्तनं, पुनधूलीधूसराणि रङ्गन्तु भूभौ, पुनलठमानानि पदे पदे परिष्वजन्तु चरणाभ्यां, कुर्वन्तु मूत्रपुरीषविमर्दनबीभत्समात्मानं, पुनरतिक्रान्तबालभावानि धारयन्तु कुमारतां, क्रीडन्तु नानाविधक्रीडाविब्बोकैः, अभ्यस्यन्तु सकलकलाकलापकौशलं, पुनरतिलवितकुमारभावान्यध्यासयन्तु तरुणतां, दर्शयन्तु मन्मथगुरूपदेशानुसारेण सकलविवेकिलोकहास्यकारिणोऽनपेक्षितनिजकुलकलङ्काद्यपायान् कटाक्षविक्षेपादिसारान् नानाकारविलासविशेषानिति / प्रवर्तन्तां पारदार्यादिष्वनार्यकार्येषु, पुनरपगततारुण्यानि स्वीकुर्वन्तु मध्यमवयस्तां, प्रकटयन्तु सत्त्वबुद्धिपौरुषपराक्रमप्रकर्ष, पुनरतिवाहितमध्यमवयोभावानि संश्रयन्त जराजीर्णतां. दर्शयन्त वलीपलिताङ्गभङ्गकरणविकलत्वमलजम्बालाविलशरीरतां, समाचरन्तु विपरीतस्वभावतां, पुनर्व्यवकलितसकलजीवितभावानि देहत्यागेन नाटयन्तु मृतरूपतां, ततः पुनः 10 रङ्गाः कालपरि
SR No.004358
Book TitleUpmitibhav Prapancha Katha Part 01
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year
Total Pages306
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy