SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ मिथ्याभि लक्ष्यते यत्पुनरमिहितं यदुत 'तेन वनीपकेन सा सद्बुद्धिः पृष्टा इष्टेन यथा भद्रे ! केन कर्मणा मयैतद् भेषजत्रयमवाप्त ? तयोक्तं स्वयं दत्तमेवात्र लोके लभ्यते, तदेतजन्मान्तरे क्वचिद्दत्तपूर्व त्वयेति। ततस्तेन चिन्तितं यदि दत्तं लभ्यते ततः पुनरपि महता यनेन सत्पात्रेभ्यः प्रयच्छामि येनेदं सकलकल्याणहेतुभूतं जन्मान्तरेऽपि ममाक्षय्य संपद्यत इति / तदिदमत्रापि जीवे समानं वर्तते, तथाहिज्ञानदर्शनचारित्राचरणजनितं प्रशमानन्दं वेदयमानोऽयं जीवः सबुद्धिप्रसादादेवेदमाकलयति यदुत यदिदं ज्ञानादित्रयमशेषकल्याणपरम्परासंपादकमतिदुर्लभमपि मया कथञ्चिदवाप्त, नेदं प्राचीनशुभाचरणव्यतिरेकेण घटते, तदस्यानुगुणं विहितं मया प्रागपि किश्चिदवदातं कर्म येनेदमासादितमिति / ततश्चेयमाविर्भवत्यस्य चिन्ता यदुत कथं पुनरेतत्सकलकालमविच्छेदेन मया लक्ष्य(भ्य)ते, ततोऽयमेतद्दानमेवास्य लाभकारणं निश्चिनुते / ततोऽवधारयत्येवं प्रयच्छामीदमधुना यथाशक्ति सत्पात्रेभ्यो येन संपद्यते मे समीहितसिद्धिरिति, यथा च असौ द्रमकस्तथा चिन्तयन्नपि महाराजाघभिमतोऽहमित्यवलेपेनेदं मन्यते यदुत यदि मां कश्चिदागत्य प्रार्थयिष्यति ततोऽहं दास्यामि, नेतरथा, इत्यभिप्रायेण दित्सुरपि याचकं प्रतीक्षमाणश्चिरकालमवतिष्ठते स्म / तत्र च मन्दिरे ये लोका स्तेषां तद्भेषजत्रयं चारुतरमस्त्येव, येऽपि तत्र तत्कालप्रविष्टतया तेन विकलास्ते(ऽन्येभ्य)भ्य एव तद् भूरि लभन्ते / ततोऽसौ वनीपको दिशो निभालयभास्ते, न कश्चित्तजिघृक्षया तत्समीपमुपतिष्ठत इति' तथाऽयमपि जीवश्चिन्तयति, यदुत विद्यते मे भगवदवलोकना, बहुमतोऽहं धर्मसूरिपादानां, नूनमनवरतमनुवर्तते ममोपरि सदनुग्रहप्रवणा तद्दया, समुन्मीलिता मे मनसि लेशतः सद्बुद्धिः, श्लाधितोऽहं समस्तलोकैस्तद्वारेण, ततःसपुण्यतया किल लोकोत्तमो वर्तेऽहमिति, अतो मिथ्याभिमानं वितनुते, भवति चात्यन्तनिर्गुणस्यापि जन्तोर्महद्भिः कृतगौरवस्य चेतसि गर्वातिरेकः / अत्र चेदमेवोदाहरणं, अन्यथा कथमयं जीवः समस्तजघन्यतामात्मनो विस्मृत्येत्यं प्रगल्भते ?, ततोऽयं भावयति यदि मां विनयपुरस्सरं कश्चिदर्थितया ज्ञानादिस्वरूपं प्रश्नयिष्यति ततोऽहं तत्तस्मै प्रतिपादयिष्यामि, नापरथा। ततस्तादृशाकूतविडम्बितोऽयं भूयांसमपि कालमवतिष्ठमानोऽत्र मौनीन्द्रप्रवचने न कथश्चित्तथाविधं प्रतीच्छकमासादयति / यतोऽत्र भवने वर्तन्ते ये जीवास्ते स्वत एव ज्ञानदर्शनचारित्रत्रयं सुन्दरतरमाबिभ्रते, नैवंविध(स्य)सम्बन्धिनमुपदेशमपेक्षन्ते / येऽप्यधुनैव लब्धकर्मविवराः सन्मार्गाभिमुखचित्तवृत्तयोऽद्यापि विशिष्टज्ञानादिरहिता विद्यन्तेऽत्र केचिज्जीवा तेऽप्यमुष्य प्रस्तुतजीवस्य संमुखमपि न निरीक्षन्ते, यतोऽत्र भगवन्मते विद्यन्ते भूरितमा महामतयः सदोधादिविधानपटवोऽन्य एव महात्मानो येभ्यस्ते प्राणिनस्तज्ज्ञानदर्शनचारित्रत्रयमपरिक्लेशेन यथेच्छया प्राप्नुवन्ति / ततोऽयं जीवोऽनासादिततदर्थी व्यर्थकमात्मगुणोत्सेकमनुवर्तमानश्चिरमप्यासीत, न कथञ्चन स्वार्थ पुष्णीयादिति / ततस्तदनन्तरं यथा 'तेन सपुण्यकेन सा सद्बुद्धिस्तदानोपायं परिपृष्टा, तया चोक्तं-"भद्र ! निर्गत्य घोषणापूर्व भवता दीयतामिति" / ततोऽसौ तत्र राजकुले घोषयन्नुचैःशब्देन यदुत"मदीयं भेषजत्रयं भो लोका ! लात लातेत्येवं" पर्यटति स्म, ततस्तस्मात्पूत्कुर्वतः केचित्तथाविधास्तुच्छप्रकृतयो गृहीतवन्तोऽन्येषां पुनर्महतां स हास्यप्रायः प्रतिभासते स्म, हीलितश्चानेकाकारम् / / ततो निवेदितस्तेन सद्वृत्तान्तः, तयाऽभिहितं-भद्र ! भवतो रोरभावं स्मरन्तः खल्वेते लोका भद्रमनादरेणावलोकयन्ति तेन न गृह्णन्ति भवता दीयमानं, ततो यदि भद्रस्य समस्ति दानोद्घो षणा दानोपायः
SR No.004358
Book TitleUpmitibhav Prapancha Katha Part 01
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year
Total Pages306
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy