SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ 32 करस्य भगवदागमपरिकर्मितमतयोऽपि योग्यतां लक्षयन्ति, तिष्ठन्तु विशिष्टज्ञाना इति ये च मम सदुपदेशदायिनो भगवन्तः सूरयस्ते विशिष्टज्ञाना एव, यतः कालव्यवहितैरनागतमेव तैतिः समस्तोऽपि मदीयवृत्तान्तः, स्वसंवेदनसंसिद्धमेतदस्माकमिति / धर्म बोध यत्पुनः 'तेन धर्मबोधकरण साकूतमानसेन सता तदनन्तरं चिन्तितं यदुत-किमेतदाश्चर्य मया ऽधुना दृश्यते ?, यतोऽयं सुस्थितो महानरेन्द्रो यस्योपरि विशेषेण दृष्टिं पातयति स पुरुषस्त्रिभुवनमनोव्यथा स्यापि द्रागेव प्रभुः सञ्जायत इति सुप्रसिद्धमेतत् , अयं पुनर्योऽधुनाऽस्य राज्ञो दृष्टे!चरचारितामनुभवन्नुपलक्ष्यते स द्रमको दैन्योपहतो रोगग्रस्तदेहोऽलक्ष्मीभाजनभूतो मोहोपहतात्माऽतिबीभत्सदर्शनो जगदुद्वेगहेतुस्तत्कथं समस्तदोषराशेरस्य परमेश्वरदृष्टिपातेन सार्द्ध सम्बन्धः?, पौर्वापर्येण विचार्यमाणो न युज्यते, न कदाचनापि दीर्घतरदौर्गत्यभाजिनां गेहेषु अनर्धेयरत्नवृष्टयो निपतितुमुत्सहन्ते, तत्कथमेतदिति विस्मयातिरेकाकुलं नश्वेतः, तदिदं सर्वमत्रापि जीवविषयं सद्धर्माचार्यचेतसि वर्तमानं योजनीयं, तथाहि -यदाऽयं जीवो नितरां गुरुकर्मतया प्रागवस्थायां समाचरति समस्तपातकानि, भाषते निःशेषासभ्यालीकवचनानि न मुच्यतेऽनवरतं रौद्रध्यानेन, स एव चाकाण्ड एव कुतश्चिनिमित्ताच्छुभसमाचार इव सत्यप्रियंवद प्रशान्तचित्त इव पुनर्लक्ष्यते, तदा भवत्येव पौर्वापर्यपर्यालोचनचतुराणां विवेकिनां मनसि वितर्को यदुत-न तावत्सुन्दरा मनोवाकायप्रवृत्तिः सद्धर्मसाधिका भगवदनुग्रहव्यतिरेकेण कस्यचित्संपद्यते, अयं चेहभव एवातिक्लिष्टमनो वाकायप्रसरोवधारितोऽस्माभिः, तदिदं पूर्वापरविरुद्धमिव प्रतिभासते, यतः कथमेवंविधपापोपहतसत्त्वे भगवदवलोकना प्रवर्त्तते, सा हि प्रवर्त्तमाना जीवस्य मोक्षसम्पादकत्वेन त्रिभुवननाथत्वमक्षेपेण जनयति, तस्मानात्र तस्याः सम्भवो लक्ष्यते, यतश्चास्य सुन्दरमनोवाकायप्रवृत्तिलेशो दृश्यते, ततोऽन्यथाऽनुपपत्त्या भगवदवलोकनायाः सद्भावोऽत्र निश्चीयते,६१ तदिदमलब्धसन्देहविच्छेद कारणं अस्माकं मनो दोलायते किमिदमाचर्यमित्याकूते / / धर्मबोध- यथा च तेन तात्पर्येण पर्यालोचयता महानसनियुक्तकेन पश्चाग्निश्चितं यदुत-सम्भवतोऽस्य करस्य मनः- द्रमकस्य द्वे कारणे महानरेन्द्रावलोकनायाः, तेन युक्तियुक्त एवास्य पारमेश्वरो दृष्टिपातः, तत्र यस्मादेष समाधिः सुपरीक्षितकारिणा स्वकर्मविवरेण द्वारपालेनात्र भवने प्रवेशितः तेनोचित एवायं विशेषदृष्टेरित्येकं कारणं, तथा यस्यैतद्भवनमालोक्य नरस्य मनःप्रसादो जायते स महानरेन्द्रस्यात्यन्तवल्लभ इति प्रागेव विनिश्चितमिदं मया, संजातश्चास्य मनःप्रसादो लक्ष्यते, यतो नेत्ररोगपीडाभराक्रान्ते अपि लोचने भवनदिदृक्षया प्रतिसमयमुन्मीलयति, तद्दर्शनेन बीभत्सदर्शनमप्यस्य वदनं सहसा प्रसादसम्पत्तदर्शनीयतामासादयति, धूलिधूसराणि चास्य सर्वाङ्गोपाङ्गानि पुलकोद्भेदभाञ्जि दृश्यन्ते, न चैतदन्तविवर्त्तमानहर्ष व्यतिरेकेण संपद्यते, तस्मादिदमस्य नृपभवनपक्षपातलक्षणं परमेश्वरावलोकनाया द्वितीयं कारणमिति' / आचार्येण ___ तदेतत्सर्वं सद्धर्माचार्या अपि जीवविषयं पर्यालोचयन्तः परिकल्पयन्त्येव, तथाहि-यो जीवो जीवस्य हेतुभिलक्ष्यते यथा संजातकर्मविवरोऽयं तथा भगवच्छासनमुपलभ्य यस्य प्रादुर्भवति मनःप्रसादः स योग्यता: च भगवान् लक्ष्यते प्रतिक्षणं नेत्रोन्मीलनकल्पया जीवादिपदार्थजिज्ञासया विभाव्यते प्रवचनार्थलवापरीक्षण धिगमे विकसितवदनकल्पेन संवेगदर्शनेन निश्चीयते च धूलिधूसरिताङ्गोपाङ्गरोमाञ्चाकारेण सदनुष्ठान 61 ०मवल घसं० पा.
SR No.004358
Book TitleUpmitibhav Prapancha Katha Part 01
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year
Total Pages306
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy