SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ तथा यदुक्तं 'विलसद्विलासिनीसाथ तन्नृपतिगृहमिति' तदत्रापि मौनीन्द्रदर्शने दर्शनीयं, तोह विलसद्विलासिनीसार्थाः सम्यग्दर्शनधरणाणुव्रतचरणजिनसाधुभक्तिकरणपरायणतया विलासवत्यः श्राविकालोकसंघाता विज्ञेयाः, यतश्च ता अपि श्रमणोपासिकाः श्रमणोपासकवत् सर्वज्ञमहाराजाद्याराधनप्रवणान्तःकरणाः सत्यं कुर्वन्ति सदाऽऽज्ञाभ्यासं, वासयन्ति दृढतरमात्मानं दर्शनेन, धारयन्त्यणुव्रतानिगृह्णन्ति गुणव्रतानि, अभ्यस्यन्ति शिक्षापदानि, समाचरन्ति तपोविशेषान् , रमन्ते स्वाध्यायकरणे, वितरन्ति साधुवर्गाय स्वानुग्रहकरमुपग्रहदानं, हृष्यन्ति गुरुपादवन्दनेन, तुष्यन्ति सुसाधुनमस्करणेन, मोदन्ते साध्वीधर्मकथासु, पश्यन्ति स्वबन्धुवर्गादधिकतरं साधम्मिकजनमुद्विजन्ते साधम्मिकविकलदेशवासेन, न प्रीयन्ते ऽसंविभागितभोगेन४८ संसारसागरादुत्तीर्णप्रायमात्मानं मन्यन्ते भगवद्धर्माऽऽसेवनेनेति, तस्मात्ता अपि तस्य मौनीन्द्रप्रवचनमन्दिरस्य मध्ये पूजोपकरणकारास्तेषामेव श्रमणोपासकानां प्रतिबद्धा मुत्कला वा निवसन्ति, याः पूनरेवंविधा न स्युस्ता यद्यपि कथश्चित्तन्मध्याध्यासिन्यो४९ दृश्येरन् तथाऽपि परमार्थतो बहिर्भूता विज्ञेयाः५० / भावग्राह्यं हीदं भागवतशासनभवनं,५१ नात्र बहिश्छायया५२ प्रविष्टः परमार्थतः प्रविष्टो भवतीति विज्ञेयम् / __ तथा—यथा 'तद्राजभवनं निरुपचरितशब्दादिविषयोपभोगविमर्दसुन्दरं' तथेदमपि विज्ञेयं, तथाहि -सर्वेऽपि देवेन्द्रास्तावदेतन्मध्यपातिनो५३ वर्तन्ते, ये चान्येऽपि महर्द्धिकामरसंघातास्तेऽपि प्रायो न 'भगवन्मतभवनादहिभूता भवितुमर्हन्ति, ततश्च तथाविधविबुधाधारभूतस्यास्य निरुपचरितशब्दादिविषयोपभोगविमर्दसुन्दरता न दुरुपपादा / ... तद्वर्णनेन चैतल्लक्षणीयं, यदुत-भोगास्तावत्पुण्योदयेन :संपद्यन्ते, किन्तु तदेव पुण्यं द्विविधं -पुण्यानुवन्धि पापानुवन्धि च / तत्र ये पुण्यानुबन्धिपुण्योदयसम्पाद्याः शब्दाधुपभोगास्त एव सुसंस्कृतमनोहरपथ्यान्नवत्सुन्दरविपाकतया निरुपचरितशब्दादिभोगवाच्यतां प्रतिपद्यन्ते, ते हि भुज्यमानाः स्फीततरमाशयं संपादयन्ति, ततश्चोदाराभिप्रायोऽसौ पुरुषो न तेषु प्रतिबन्धं विधत्ते, ततश्चासौ तान भुञ्जानोऽपि निरभिष्वङ्गतया प्राग्बद्धपापपरमाणुसश्चयं शिथिलयति, पुनश्चाभिनवं शुभतरविपाकं पुण्यप्राग्भारमात्मन्याधत्ते, स चोदयप्राप्तो भवविरागसम्पादनद्वारेण सुखपरम्परया तथोत्तरक्रमेण मोक्षकारणत्वं प्रतिपद्यत इति हेतोः सुन्दरविपाकास्तेऽभिधीयन्ते। ये तु पापानुवन्धिपुण्योदयजनिताः शब्दादिविषयानुभवास्ते सद्योघातिविषोपदिग्धमोदकवदारुणपरिणामतया तत्त्वतो भोगा एव नोच्यन्ते, यतस्ते मरुमरीचिकाजलकल्लोला इव तदुपभोगार्थ धावतः पुरुषस्य विफलश्रमसम्पादनेन गाढतरं तृष्णामभिवर्द्धयन्ति, न तु संपद्यन्ते, कथञ्चित्सम्प्राप्ता अपि ते भुज्यमानाः क्लिष्टमाशयं जनयन्ति, ततश्च तुच्छाभिप्रायोऽसौ पुरुषोऽन्धीभूतबुद्धिस्तेषु नितरां प्रतिबन्धं विधत्ते, ततस्तान् कतिपयदिवसभाविनो भुञ्जानस्तत्सम्पादकं प्रागुपनिबद्धं पुण्यलवं व्यवकलयति पुनश्चोदग्रगुरुतरपापभरमात्मन्याधत्ते, ततश्च तेनोदयप्राप्तेनानन्तदुःखजलचराकुलं संसारसागरमनन्तकालं स जीवः परावर्त्तते, तेन ते पापानुबन्धिपुण्यसम्पाद्याः शब्दादयो दारुणपरिणामा इत्यभिधीयन्ते / 48 संविभागसंभोगेन प्र०४९ ०ध्यासिनो पा.५० द्रष्टव्या प्र.५१ ०वतं शा० प्र. 52 बहिस्थो यथा प्र. 53 वासिनो प्र. 54 विशेषसुखसाध्या प्र.
SR No.004358
Book TitleUpmitibhav Prapancha Katha Part 01
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year
Total Pages306
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy