SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ विदुषां सन्मार्गः आचार्यास्तत्र राजान, उपाध्यायास्तु मन्त्रिणः / गीतार्थवृषभा योद्धा, गणचिन्तानियुक्तकाः // 7 // सामान्यभिक्षवः सर्वे, विज्ञेयास्तलवर्गिकाः। आर्यास्तु तत्र सद्गेहे, प्रशान्ताः स्थविरा जनाः // 71 // भटौघाः श्राद्धसङ्घातास्तद्रक्षाबद्धमानसाः / ज्ञेया विलासिनीसार्था, भक्तास्तत्प्रमदागणाः // 72 // शब्दादिविषयानन्दवर्णनं पुनरत्र यत् / तदेवमर्थ सद्धर्माज्जायन्ते तेऽपि सुन्दराः // 73 // धर्मबोधकरो ज्ञेयः, सूरियो मत्प्रबोधकः / तद्दया तस्य या जाता, ममोपरि महाकृपा // 4 // ज्ञानमञ्जनमुद्दिष्टं, सम्यक्त्वं जलमुच्यते / चारित्रमत्र विज्ञेयं, परमान्नं मनीषिभिः // 75 // सद्बुद्धिः शोभना बुद्धिः, सन्मार्गे या प्रवर्तिका / काष्टपात्री त्रयाधारा, वक्ष्यमाणा कथोच्यते // 76 // एषा समासतस्तावत्, कृता सामान्ययोजना / विशेषयोजना व्यक्तं, गद्येनोदाहरिष्यते // 477 // तत्रेह तावत्तत्त्वविदुषामेष मार्गो यदुत तेषां कल्याणाभिनिवेशितया निष्प्रयोजना विकल्पो न चेतसि विवर्त्तते, अथ कदाचिदभावितावस्थायां विवर्त्तत तथापि ते न निनिमित्तं भाषन्ते, अथ कदाचिदतत्त्वज्ञजनान्तर्गततया भाषेरन् तथापि न निर्हेतुकं चेष्टन्ते, यदि पुनस्ते निष्कारणं चेष्टेरन् ततोऽतत्त्वज्ञजनसार्थादविशिष्टतया तत्त्ववित्ता विशीर्यंत, तस्मात्तत्त्ववेदिष्वात्मनोऽन्तर्भावमभिलपता सकलकालं सर्वेण स्वविकल्पजल्पाचरणानां सार्थकत्वं यत्नतः परिचिन्तनीयम्, तद्वेदिनां च पुरतः कीर्तनीयम्, ते हि निरर्थकेष्वप्यात्मविकल्पजल्पव्यापारेषु सार्थकत्वबुद्धिं कुर्वन्तमनुकम्पया वारयेयुरिति / अतो मयाऽपि स्वप्रवृत्तेः सार्थकत्वमावेदयतेमामुपमितिभवप्रपश्चाभिधानां कथामारब्धुकामेन कथानकं दृष्टान्तद्वारेण निवेदितं, तदेतद्यद्यवधारितं भो भव्यास्ततो मदनुरोधेन विहाय विक्षेपान्तरं अस्य दार्टान्तिकमर्थमाकर्णयत तत्र यत्तावद् 'अदृष्टमूलपर्यन्तं नाम नगरमनेकजनाकुलं सदास्थायुकमाख्यातं' सोऽयमनादिनिधनोऽविच्छिन्नरूपोऽनन्तजन्तुव्रातपूरितः संसारो द्रष्टव्यः, तथाहि-युज्यतेऽस्य नगरस्य नगरता कल्पयितुं, यतोऽत्र धवलगृहायन्ते देवलोकादिस्थानानि, हट्टमार्गायन्ते परापरजन्मपद्धतयः, विविधपण्यायन्ते नानाकारमुखदुःखानि, तदनुरूपमूल्यायन्ते बहुविधपुण्यापुण्यानि, विचित्रचित्रोज्ज्वलदेव कुलायन्ते सुगतकणभक्षाक्षपादकपिलादिप्रणीतकुमतानि पौर्वापर्यपर्यालोचनविकलमुग्धजनचित्ताक्षेपकारितया, सहर्षप्रबलकलकलोपेतदुर्दान्तबालकलापायन्ते क्रोधादयः कषायाः सकलविवेकिमहालोकचित्तोद्वेगहेतुतया, तुङ्गप्राकारायन्ते महामोहोऽलङ्ग्यतया वेष्टकतया च महापरिखायते रागद्वेषात्मिका तृष्णा विषयजलदुष्पूरतयाऽतिगम्भीरतया च, विस्तीर्णमहासरायन्ते शद्धादयो. विषयाः प्रबलजलकल्लोलाकुलतया विपर्यस्तजनशकुनाधारतया च, गम्भीरान्धकूपायन्ते प्रियविप्रयोगानिष्टसंयोगस्वजनमरणधनहरणादयो भावाः त्रासहेतुतया अदृशमूलतया च, विशालारामकाननायन्ते जन्तुदेहाः हृषीकमनश्चश्चरीकनिलयनकारणतया स्वकर्मविविधविटपिकुसुमफलभरपूरिततया चेति"। यस्तु 'तत्र नगरे निष्पुण्यको नाम द्रमकः कथितः सोऽत्र संसारनगरे सर्वज्ञशासनप्राप्तेः पूर्व पुण्यरहिततया यथार्थाभिधानो मदीयजीवो द्रष्टव्यः / यथाऽसौ द्रमको महोदरः तथाऽयमपि जीवो विषयकदशनदुष्पूरत्वान्महोदरः / यथाऽसौ द्रमकः प्रलीनबन्धुवर्गस्तथाऽयमपि संसृतेः नगरकल्पना स्वस्य द्रमकोपमा 100 तत् सर्वमिति ज्ञापनाय 1 अयाकाराप्र.२ कश्चिद 3 सूचितं सूचित प्र.५ पक्षे जडानां कल्लोलाः
SR No.004358
Book TitleUpmitibhav Prapancha Katha Part 01
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year
Total Pages306
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy