________________ प्रेमपरीक्षायै कला- प्रश्न: अथ तत्तादृशं दृष्ट्वा, मदीयं दुष्टचेष्टितम् / पुण्योदयो मनस्तापाद्गाद जातोऽतिदुर्बलः // 14 // ततो मां तादृशं वीक्ष्य, विरक्ताः सर्वबान्धवाः। इदं जल्पितुमारब्धा, हसन्तस्ते परस्परम् // 15 // पश्यताहो विधेः कीदृगस्थानविनियोजनम् ? / स्त्रीरत्नमीदृशं येन, मूर्खेगानेन योजितम् // 16 // स्तब्धोऽभून्मूर्खभावेन, प्रागेष रिपुदारणः / आसाद्येमा पुनर्भाया, गर्वेणान्धोऽधुना ह्ययम् // 17 // स एव वर्तते न्यायो, लोके यः किल श्रूयते। एकं स वानरस्तावदृष्टोऽन्यद्वषरणेऽलिना // 1 // तदेषा चारुसर्वाङ्गी, सद्भार्या नरसुन्दरी / करिणीव खरस्योच्चैर्न योग्याऽस्य मृगेक्षणा // 19 // अन्यदा नरसुन्दर्या, सद्भावार्पितचित्तया / स्नेहगर्भपरीक्षार्थ, चिन्तितं निजमानसे // 20 // किं ममाप्तिसद्भावः ?, किं वा नो रिपुदारणः ? / आ ज्ञातं स्नेहस स्वं, गुह्याख्यानेन गम्यते // 21 // अनाख्येयमतः किञ्चिद् गुह्यसर्वस्वमञ्जसा / पृच्छाम्येनं दृढस्नेहे, ततो व्यक्तिर्भविष्यति // 22 // ततश्चिन्तितं नरसुन्दर्या-कीदृशं पुनरहं गुह्यमधुनाऽऽर्यपुत्रं पृच्छामि ? हु ज्ञातं तावत्सुनिश्चितमिदं मया यदुत नितरां कमनीयशरीरोऽपि रक्ताशोकपादपवदेष निखिलकलाकलापकोशलफलविकल एवार्यपुत्रः, यतो विज्ञानाभावजनिताद्भयातिरेकादेव तथाविधोऽस्य तदा सभामध्ये मनःक्षोभोऽभूत् , तदधुना तदेव मनःक्षोभकारणमार्यपुत्रं प्रश्नयामि, ततो यदि स्फुटमाचक्षीत, विज्ञास्यामि यथाऽस्ति मया सहास्य स्नेहसद्भावः, अथ न कथयेत्ततस्तत्राप्यभिप्राय लक्षयिष्यामीति विचिन्त्य पृष्टोऽहं नरसुन्दर्या यदुत आर्यपुत्र ! कीदृशं तव तदा सभामध्ये शरीरापाटवमासीदिति / अत्रान्तरे ज्ञातावसरेण प्रयुक्ता मृषावादेनाऽऽत्मीया योगशक्तिः, कृतमन्तर्धानं, प्रविष्टो मदीयमुखे / ततोऽभिहितं मया-प्रियतमे ! त्वया पुनस्तदा कीदृशं लक्षितं ? नरसुन्दरी प्राह-न मया किश्चित्तदा सम्यग् विज्ञातं, केवलं समुत्पन्ना शङ्का-किं सत्यमेव शरीरापाटवमार्यपुत्रस्य ? किं वा कलाकलापे न कौशलमिति ? मयाऽभिहितं-सुन्दरि ! न तत्रैकोऽपि विकल्पः कर्तव्यः यतस्तरन्ति हृदये मम सकलाः कलाः शरीरापाटवमपि मम न किञ्चित्तदाऽऽसीत् केवलमम्बया तातेन चालीकमोहात् कृतो मुधैव बहलः कलकलः, तथाविधालीककलकले च स्थिरतया स्थितोऽहं मौनेन / एतच्चाकर्ण्य नरसुन्दर्याः संजातो मनसि व्यलीकभावः / चिन्तितमनया-अहो अस्य प्रत्यक्षापलापित्वं, अहो निर्लज्जता, अहो धृष्टता, अहो आत्मबहुमानिता। ततोऽभिहितं नरसुन्दर्या-आर्यपुत्र ! यद्येवं ततो महत्कुतूहलं मम इदानीमप्यहमार्यपुत्रेण कलास्वरूपमुत्कीर्त्यमानं श्रोतुमिच्छामि अतो महता प्रसादेन समुत्कीर्तयतु तदार्यपुत्रः / मया चिन्तितं-अये ! पाण्डित्याभिमानेन परिभवबुद्धया मामुपहसत्येषा / अत्रात्तरे लब्धावसरो विजृम्भितः शैलराजः विलिप्तं तेन स्तब्धचित्ताभिधानेनात्मीयविलेपनेन स्वहस्तेन मद्धदयं, ततश्चिन्तितं मया-एवं या मम परिभवेनोपहासकारिणी खल्वेषा पापा नरसुन्दरी, तया किमिह स्थितया ? ततो मयाऽभिहितं-अपसर पापे ! दृष्टिमार्गादपसर, तूर्ण निर्गच्छ मदीयभवनात्, न युक्तं भवादृश्याः पण्डितमन्याया मूर्खेणानेन जनेन सहावस्थातुमिति / ततोऽवलोकितं मदीयवदनं नरसुन्दर्या / चिन्ततमनया-हा धिक् सद्भावीभूत एवायं वशीकृतो मानभटेन न गोचरः साम्प्रतं प्रसादनायाः, ततो मन्त्राहतेव भुजङ्गवनिता, समुन्मूलितेव वनलतिका, उत्खोटितेव चूतमञ्जरी, अङ्कुशकृष्टेव करिणिका सर्वथा विद्राणदीनवदना साध्वसभारनिर्भरं हृदयमुद्वहन्ती मन्दं मन्दं कणन्म१ गीयते प्र. 2 मुके. 3 वृश्चिकेन. परिभवापादनबु. द्धिः निकाशन