SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ मध्यबुद्धविचारः निवेद्यते, तत्कथमेतदिति ? संसारिजीवेनाभिहितं-मुग्धे ! मयापि नन्दिवर्द्धनेन सता पृष्ट एवेदं विदुरः। ततो विदुरेणाभिहितं-कुमार ! कर्मविलासस्तत्रान्तरङ्गो राजा शत्रुमर्दनस्तु बहिरङ्गः, तेन नास्ति विरोधः, यतो बहिरङ्गाणामेव राज्ञां दशापराधप्रभविष्णुता भवति बहिरङ्गनगरेषु नेतरेषां, ते हि केवलं सुन्दरासुन्दरप्रयोजनानि जनानां प्रच्छन्नरूपा एव सन्तः स्ववीर्येण निवर्तयन्ति, तथाहिकर्मविलासप्रतिकूलताजनितोऽयं बालस्य परमार्थतः सर्वोऽप्यनर्थः संपन्न इति / ततो मयाऽभिहितंअपगतोऽधुना मे सन्देहः, . अग्रतः कथय, विदुरेणाभिहितं-ततः कृच्छ्रेणातिक्रान्ते याममात्रे रजन्याः प्राप्तः स्वसदनं बालः / ___ इतश्चाकर्णितः प्रभात एव तदीयवृत्तान्तो मध्यमबुद्धिना, ततो बालस्नेहलेशस्यानुवर्तमानतया संजातो मनाग् विषादः / चिन्तितमनेन-हा किमीदृशं संपन्नं बालस्येति ? पुनः पर्यालोचयतः प्रादुर्भूतोऽस्य मनसि प्रमोदः। चिन्तितमनेन-पश्यताहो मनीषिवचनकरणाकरणयोरिह लोक एवान्तरं, तथाहि-तदुपदेशवर्तिनो मेऽधुना न संपन्नः क्लेशः नोदीर्णमयशः पूर्व पुनर्विपरीतचारिणो द्वयमप्यासीत्, बालस्य पुनरेकान्ततो मनीशिवचनविपरीताचरणनिरतस्य यत्संपद्यते दुःखसंघातो, विज़म्भते जगत्ययशःपटहः, संजायते मरणं तत्र किमाश्चर्य ? तदस्ति ममापि काचिद् धन्यता यया मनीषिवचने बहुमानः संपन्न इति / तथाहि-नैवाभव्यो भवत्यत्र, सतां वचनकारकः। पक्तिः काङ्कटुके नैव, जाता यत्नशतैरपि // 1 // एवं भावयतश्चित्ते, बालस्नेहं विमुञ्चतः / प्रमोदपूर्णचित्तस्य, लवितं तस्य तदिनम् // 2 // ततः समागते बाले, लोकाचारानुवर्त्तनम् / कुर्वता विहितं तेन, तस्य संभाषणं किल // 3 // पृष्टश्चाशेषवृत्तान्तं, विषादगतबुद्धिना / तेनापि कथिता तस्मै, बालेनात्मविडम्बना // 4 // न शिक्षणस्य योग्योऽयं, मत्वा मध्यमबुद्धिना / ततस्तदनुरोधेन, कृतेषत्परिदेवना // 5 // ततश्चूर्णितसर्वाङ्गो, दुःखवितलमानसः / तथा राजभयादुग्राद्, बालस्तत्रैव संश्रितः // 6 // प्रच्छन्नरूपः सततं, न निर्गच्छति कुत्रचित् / एवं च तिष्ठतोः कालस्तयोर्भूयान् विलडितः // 7 // अथान्यदा निजविलसिताभिधाने जीर्णोद्याने गन्धहस्तीव वरकलभवृन्देन. परिकरितः सातिशयगुणवता निजशिष्यवर्गेण प्रवाहः करुणारसस्य, संतरणसेतुः संसारसिन्धोः, परशुस्तृष्णालतागहनस्य, अशनिर्मानपर्वतोद्दलने, मूलमुपशमतरोः, सागरः सन्तोषामृतस्य, तीर्थ सर्वविद्यावताराणां, कुलभवनमाचाराणां, नाभिः प्रज्ञा (प्राज्ञ) चक्रस्य, वडवानलो लोभार्णवस्य, महामन्त्रः क्रोधभुजङ्गस्य, दिवसकरो महामोहान्धकारस्य, निकषोपलः शास्त्ररत्ना (सुवर्णा)नां, दावानलो रागपल्लवदहने, अर्गलाबन्धो नरकद्वाराणां, देशकः सत्पथानां निधिः, सातिशयज्ञानमणीनामायतनं समस्तगुणानां समवसृतस्तत्र पुरे प्रबोधनरतिर्नामाचार्यः / इतश्च स्पर्शनप्रतिकूलचारिणमुपलभ्य मनीषिणं प्रादुरभूत्कर्मविलासस्य तस्योपरि खरतरः पक्षपातः / ततोऽसौ शुभसुन्दरी प्रत्याह-प्रिये / लक्षयत्येव तावदिदं भवती, यथाऽनादिरूढा प्रकृतिरियं मम वर्त्तते, यदुत योऽस्य स्पर्शनस्यानुकूलस्तस्य मया प्रतिकूलेन भाव्यं प्रतिकूलस्य पुनरनुकूलतया वर्तितव्यं, मम च प्रतिकूलमाचरतः सर्वत्राकुशलमालोपकरणं अनुकूलं विदधतः पुनर्भवती ममोपकरणं वर्त्तते / तदेवं स्थिते स्पर्शनानुकूलचारिणो बालस्य दर्शितो मयाऽकुशलमालाव्यापारणद्वारेण कश्चिदात्मनः प्रतिकूलताफलविशेषः, अस्य तु मनीषिणः स्पर्शनप्रतिकूलवर्तिनो न मयाऽद्यापि निजानुकूलता प्रबोधन रिसमागमः कर्म विला- सस्य मनी षिपक्षपातः
SR No.004358
Book TitleUpmitibhav Prapancha Katha Part 01
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year
Total Pages306
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy