SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ 390 Muni JAMBOVIJAYA विस्तरेण दार्शनिकी चर्चा अपि दृश्यते / अस्यां चर्चायां प्रसङ्गमासाद्य अनेकेभ्यो ग्रन्थेभ्यः पाठा उद्धृताः / बौद्धाचार्येण प्रज्ञाकरगुप्तेन विरचितः धर्मकीर्तिविरचितप्रमाणवार्तिकस्य भाष्यरूपतया अलङ्कारभूतः वार्तिकालङ्कारः अत्र बहुश उपयुक्तः / एते सर्वेऽपि पाठा मूलस्थानेन सह अत्रोपदर्श्यन्ते - [नन्दिसूत्रस्य मलयगिरिविरचिताया वृत्तेः अत्र नं० म० इति संकेतः, पं० इति पंक्तेः संकेत:, पृ० इति पृष्ठस्य (Page) संकेत:, श्लो० इति श्लोकस्य संकेत:, A=Recto, B=Verso] नं० म० पृ० 3A, उक्तं च- “य: कर्ता कर्मभेदानां भोक्ता कर्मफलस्य च / संसर्ता परिनिर्वाता स ह्यात्मा नान्यलक्षणः // [शास्त्रवार्तासमुच्चये श्लो० 90] नं० म० पृ 3B, आह च प्रज्ञाकरगुप्तोऽपि- “रूपान्तरेण यदि तत् तदेवास्तीति मा रटी: / चैतन्यादन्यरूपस्य भावे तद् विद्यते कथम् ? // [वार्तिकालङ्कारे पृ० 128 श्लो० 692] अत्र वार्तिकालङ्कारे 'विज्ञानादन्यरूपस्य' इति पाठः। नं० म० पृ० 4A, उक्तं च- "काठिन्याबोधरूपाणि भूतान्यध्यक्षसिद्धित: / चेतना च न तद्रूपा सा कथं तत्फलं भवेत् // [शास्त्रवार्तासमुच्चये श्लो० 43] नं० म० पृ० 4B, तदुक्तम्- “अन्तराभवदेहोऽपि सूक्ष्मत्वान्नोपलभ्यते / १.अयं वार्तिकालङ्कारः 'प्रमाणवार्तिकभाष्यम्' इति नाम्ना Kashi Prasad Jayaswal Research Institute. Patna इत्यत इसवीये 1953 वर्षे पण्डित राहल सांकत्यायनेन प्रकाशितः। नन्दीसूत्रस्य मलयगिरिसूरिविरचितायां वृत्तौं उद्धृताः पाठा वार्तिकालङ्कारस्य संशोधनेऽपि भृशमुपयोगिनो भविष्यन्ति इति विदांकुर्वन्तु सज्जनाः। वाराणसीस्थेन षड्दर्शनप्रकाशनसंस्थानेन स्वामियोगीन्द्रानन्देन संपादितो हिन्दीभाषायामनूदितश्च] अयं ग्रन्थः सम्प्रति प्रकाशयितुमारब्धोऽस्ति, तस्य च प्रथमो भागः प्रकाशितोऽप्यस्ति सम्प्रति 1991 A.D.वर्षे / 2. मूलस्थानानां गवेषणाय अस्माभिर्बहु प्रयतितम्, यानि यानि स्थानानि लब्धानि तानि [ ] एतादृशे चतुरस्र कोष्ठके दर्शितानि, यत्र मूलस्थानं न लब्धं तत्र कोष्ठकं रिक्तं स्थापितम् / 3. आचार्यश्रीहरिभद्रसूरिविरचितः शास्त्रवार्तासमुच्चयः गोडीजी जैन उपाश्रय Bombay इत्यादित: प्रकाशितः //
SR No.004355
Book TitleQuotations in Malaygiris Commentary on Nandisutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherZZZ Unknown
Publication Year
Total Pages18
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy